भोपालनगरे अद्य आरभ्य सप्तदिवसीया अन्ताराष्ट्रियवनमेला, मुख्यमन्त्री डॉ. यादवः शुभारम्भं करिष्यति
भोपालम्, १७ दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य (बुधवासरे) सायं पञ्चवादने भोपालनगरे स्थिते लालपरेडक्षेत्रे अन्ताराष्ट्रियवनमेलायाः शुभारम्भं करिष्यति। अस्मिन् अवसरॆ मुख्यमन्त्री डॉ. यादवः “लघु वनोपज हमारी शान” इति गी
  मुख्यमंत्री डॉ. यादव


भोपालम्, १७ दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य (बुधवासरे) सायं पञ्चवादने भोपालनगरे स्थिते लालपरेडक्षेत्रे अन्ताराष्ट्रियवनमेलायाः शुभारम्भं करिष्यति। अस्मिन् अवसरॆ मुख्यमन्त्री डॉ. यादवः “लघु वनोपज हमारी शान” इति गीतस्य विमोचनं करिष्यति, एम्.एफ्.पी.-उद्यानस्य ‘लोगो’ इत्यस्य अनावरणं च करिष्यति, तदनन्तरं एम्.एफ्.पी.-उद्यानेन निर्मितस्य वेलनेसकिटस्य अपि विमोचनं करिष्यति।

जनसम्पर्काधिकारी के.के. जोशी अवदत् यत् अन्ताराष्ट्रियवनमेलाकार्यक्रमे क्रीडायुवाकल्याणमन्त्री विश्वास कैलाश सारंगः, उच्चशिक्षामन्त्री इन्दरसिंहपरमारः, वन एवं पर्यावरणराज्यमन्त्री दिलीप अहिरवारः, अपरमुख्यसचिवः तथा प्रशासकः मध्यप्रदेशराज्यलघुवनोपज अशोक बर्णवालः, प्रधानमुख्यवनसंरक्षकः व्ही.एन. अम्बाडे, तथा प्रबन्धसञ्चालिका मध्यप्रदेशराज्यलघुवनोपज डॉ. समीता राजौरा उपस्थिताः भविष्यन्ति।

वनविभागस्य तथा मध्यप्रदेशराज्यलघुवनोपज (व्यापार-एवम्-विकास) सहकारीसंघमर्यादितस्य संयुक्ततत्त्वावधानॆ “समृद्धवनं सुखीजनः” इति विषयेन अन्ताराष्ट्रियवनमेला १७ दिसम्बरतः २३ दिसम्बरपर्यन्तं आयोज्यते।

मेलायां

१७ दिसम्बरदिनाङ्के डिण्डोरीप्रदेशस्य पारम्परिकनृत्यप्रस्तुतिः,

१८ दिसम्बरदिनाङ्के स्टार्ट-अप्-समागमः, पारम्परिकवैद्यकार्यशाला, छात्र-छात्राभिः एकलगायनं समूहगायनं च, योगप्रदर्शनम्, कथकनृत्यप्रस्तुतिः, जैवविविधताकेन्द्रेण नुक्कडनाटकप्रतियोगिता, तथा ऑर्केस्ट्रासम्राट्म्यूजिकलसमूहस्य कार्यक्रमः,

१९ दिसम्बरदिनाङ्के छात्र-छात्राभिः वेशप्रदर्शनम् एवं एकलाभिनयः, ध्रुपद-गायनम्, कबीरवाणी, ऑर्केस्ट्रा (जे.के. म्यूजिकल्-ग्रुप) तथा विरासतसूफीसंगीतप्रस्तुतिः,

२० दिसम्बरदिनाङ्के छात्र-छात्राभिः चित्रकला, बुन्देलीगायनम्, राजस्थानीलोकनृत्यम्, ऑर्केस्ट्रा (सरगम्-म्यूजिकल्-ग्रुप), मानसरोवरमहाविद्यालयेन फ्लैश्-मॉब्, तथा “वनविभागस्य नामएकः सायंकालः (फॉरेस्ट् मेलोडी)” कार्यक्रमः,

२१ दिसम्बरदिनाङ्के छात्र-छात्राभिः एकलनृत्यं समूहनृत्यं च, कठपुतलीप्रदर्शनम्, पंजाबीभांगड़ानृत्यप्रस्तुतिः, तथा ऑर्केस्ट्रा (हंस-ध्वनि-म्यूजिकल्),

२२ दिसम्बरे छात्र-छात्राभिः वाद्यसंगीतप्रस्तुतिः, लोकप्रस्तुतिः, पारम्परिकचिकित्सकैः, चिकित्सकैः तथा क्षेत्रीयाधिकारिभिः सह परिचर्चा, जैवविविधताकेन्द्रेण नुक्कडनाटकप्रतियोगितायाः अन्तिमचरणः, ऑर्केस्ट्रा (चित्रांश-म्यूजिक) तथा विद्यार्थिभिः सांस्कृतिककार्यक्रमाः,

तथा २३ दिसम्बरे मेलासमापनसमारोहः, पुरस्कारवितरणम्, झाबुआप्रदेशस्य पारम्परिकनृत्यप्रस्तुतिः, तथा आयुष्-म्यूजिकलसमूहस्य ऑर्केस्ट्राकार्यक्रमः भविष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani