Enter your Email Address to subscribe to our newsletters

नवादा,17 दिसंबरमासः (हि.स.)।
जिले वारिसलीगंजप्रखण्डस्य आईटीआई प्राङ्गणे स्वातन्त्र्यसंग्रामस्य सेनानी स्वर्गीय ज्वाला प्रसाद सिंहस्य पञ्चचत्वारिंशत्तमः पुण्यतिथिः श्रद्धया आचरितः। अस्य समारोहस्य उद्घाटनं जनता दल यूनाइटेड दलस्य प्रान्तीयप्रवक्त्रा तथा पूर्वमन्त्रिणा नीरज कुमार सिंहेन कृतम्।
अस्मिन् अवसरॆ जदयू जिलाध्यक्षः मुकेश विद्यार्थी, पूर्वविधायिका अरुणा देवी, मुखिया राजकुमार सिंह, पूर्वजिलापरिषदस्य सदस्यस्य अरुणा देव्याः पतिः अखिलेश सिंह, मुकेश कुमार, काङ्ग्रेसदलस्य नेता अजय कुमार तिवारी इत्यादयः उपस्थिताः आसन्। सर्वे मिलित्वा ज्वाला बाबोः आदर्शान् जनजनं प्रति प्रसारयितुं संकल्पं कृतवन्तः।
समारोहं सम्बोधयन् पूर्वमन्त्री नीरज कुमारः अवदत् यत् ज्वाला बाबू क्रान्तेः अग्रदूतः आसीत्। सः भारतस्य स्वातन्त्र्यसंग्रामे उत्साहेन सक्रियतया च भागं गृहीतवान्। राष्ट्रपिता महात्मा गान्धिना, पण्डित जवाहरलाल नेहरूणा, सरदार वल्लभभाई पटेलेन, आचार्य विनोबा भावेन, लोकनायक जयप्रकाश नारायणेन, जननायक कर्पूरी ठाकुरेण च सह देशस्य स्वातन्त्र्याय महत्त्वपूर्णां भूमिकां निर्वहन् सः। स्वातन्त्र्यान्दोलने ज्वाला बाबू कारावासम् अपि गतवान्।
नीरज कुमारः उक्तवान् यत् वारिसलीगंजे अद्यापि ज्वाला बाबोः क्रान्तेः तरङ्गः प्रवहति, तेनैव वारिसलीगंजं विकासमार्गे अग्रसरं भवति। युवजनान् प्रति सः सन्देशं दत्तवान् यत् ज्वाला बाबोः स्वप्नसमाजस्य निर्माणाय एकजुटतया कार्यं कुर्वन्तु, तदैव तस्य अभिलाषाः पूर्णाः भविष्यन्ति।
ज्वाला बाबोः आदमकदप्रतिमायां माल्यार्पणं कुर्वन् सः अवदत् यत् शहीदानां सम्मानात् राष्ट्रस्य सम्मानं वर्धते। स्थानीयमुखिया राजकुमार सिंहः स्वस्य आईटीआई महाविद्यालये अतिथीन् स्वागतं कृत्वा अवदत् यत् ज्वाला बाबोः अभिलाषाः ग्रामे ग्रामे प्रचारयिष्यामः।
पूर्वविधायिका अरुणा देवी अवदत् यत् वारिसलीगंजक्षेत्रस्य युवजनाः ज्वाला बाबोः आदर्शान् अनुसरन्ति, भविष्ये अपि तान् अनुसरिष्यन्ति। पूर्वजिलापरिषदस्य सदस्यः अखिलेश सिंहः अवदत् यत् ज्वाला बाबू अद्यापि समाजस्य प्रेरणास्रोतः अस्ति, तस्य प्रेरणया एव वारिसलीगंजे विकासक्षेत्रे परिवर्तनं निश्चितं जातम्।
अस्मिन् अवसरे ज्वाला बाबोः आदर्शान् आत्मसात् कर्तुं संकल्पः अपि कृतः। मुखिया राजकुमार सिंहस्य सौजन्येन क्षेत्रस्य दरिद्रजनानां मध्ये पञ्चशतानि कम्बलानि वितरितानि। विधानपरिषदस्य सदस्यः नीरज कुमारः अवदत् यत् दरिद्रसेवातः परं जगति कश्चन धर्मो नास्ति।
---------------
हिन्दुस्थान समाचार