Enter your Email Address to subscribe to our newsletters

लखनऊ, 16 दिसम्बरमासः(हि.स.)। उत्तरप्रदेश विधानसभायाः अध्यक्षः सतीशमहाना तथा बाल एवं महिला कल्याणमन्त्री बेबीरानीमौर्ययोः मङ्गलवासरे विश्वस्वरैयाप्रेक्षागृहे डॉ. शीलवन्तसिंहविरचितस्य पुस्तकस्य गतिमान उत्तरप्रदेशः योगीसर्वकारस्य बेमिसाल अष्टवर्षाणि इति शीर्षकस्य लोकार्पणं कृतम्।अस्मिन् अवसरे विधानसभाध्यक्षः सतीशमहाना अवदत् यत् अस्मिन् ग्रन्थे सरकारस्य उपलब्धीनां सह प्रदेशस्य सांस्कृतिकचेतना सामाजिकपरिवर्तनं तथा भावनात्मकपक्षः अपि सन्तुलितेन सशक्तेन च रूपेण निरूपितः अस्ति।
महाना अवदत् यत् मुख्यमन्त्रिणा योगिना आदित्यनाथेन समाजस्य अन्तिमपङ्क्तौ स्थितानां वर्गाणां पर्यन्तं विकासस्य प्रकाशः प्रापितः ये दीर्घकालेन उपेक्षिताः आसन्। सः उक्तवान् यत् अद्य प्रदेशस्य सामान्यजनाः अपि अर्थव्यवस्थादिषु विषयेषु संवादं कुर्वन्ति, यत् सकारात्मकसामाजिकचेतनायाः प्रतीकम् अस्ति।
महाना अवदत् यत् संवत्सरात् 2017 पूर्वं उत्तरप्रदेशस्य परिचयविषये जनानां मनसि संकोचभावना आसीत्, किन्तु अद्य प्रदेशस्य नागरिकत्वे गौरवानुभवः जायते। वर्तमानकाले उत्तरप्रदेशे कन्याः सुरक्षिताः सन्ति, विधिव्यवस्था सुदृढा जाता अस्ति, तथा च प्रदेशः औद्योगिकविकासस्य प्रमुखकेन्द्ररूपेण स्थापितः अस्ति। सः अवदत् यत् पूर्वं विद्यमाना अव्यवस्था अराजकता च इति धारणा व्यापकं परिवर्तनं प्राप्तवती अस्ति, तथा प्रदेशस्य प्रत्येकस्मिन् क्षेत्रे विकासः स्पष्टतया दृश्यते।
महाना अवदत् यत् विद्युत् मार्ग जल सुरक्षा तथा आधारभूतसंरचनाक्षेत्रेषु व्यापकः विकासः अभवत्। अयोध्या काशी प्रयागराजादिषु धार्मिकक्षेत्रेषु ऐतिहासिकपरिवर्तनैः सह धार्मिककार्यक्रमाणां सुव्यवस्थितं सुचारुं च प्रबन्धनं सरकारस्य कार्यकुशलतायाः संवेदनशीलप्रशासनस्य च साक्ष्यं वर्तते। सः उक्तवान् यत् अद्य उत्तरप्रदेशः तादृशं नेतृत्वं प्राप्तवान् अस्ति येन लोकतान्त्रिकसंस्थानां सशक्तीकरणं संरक्षणं च सुनिश्चितं कृतम्।
अस्मिन् कार्यक्रमे मुख्यमन्त्रिणः सलाहकारः अवनीशअवस्थी, विधानसभायाः प्रमुखसचिवः प्रदीपकुमारदुबे तथा विधायकः ओ पी श्रीवास्तव इत्येषां गरिमामयी उपस्थिति समारोहस्य विशेषं महत्त्वं वर्धितवती।
हिन्दुस्थान समाचार / Dheeraj Maithani