आर्यसमाजे कठुआनगरे गीताज्ञानसप्ताहस्य प्रथमदिवसस्य प्रेरणादायकः आरम्भः
कठुआनगरम्, १७ दिसम्बरमासः (हि.स.)। स्वामीश्रद्धानन्दवर्यस्य बलिदानदिवसस्य स्मृत्यर्थं आयोजिते गीताज्ञानसप्ताहस्य प्रथमदिवसे आर्यसमाजे कठुआनगरे आध्यात्मिके वातावरणे ज्ञानगङ्गा प्रवाहिताऽभवत्। कार्यक्रमस्य मुख्यवक्त्री पूजनीया सुश्री गायत्रीदेवीवर्या
Inspirational start to the first day of Geeta Gyan week at Arya Samaj Kathua.


कठुआनगरम्, १७ दिसम्बरमासः (हि.स.)। स्वामीश्रद्धानन्दवर्यस्य बलिदानदिवसस्य स्मृत्यर्थं आयोजिते गीताज्ञानसप्ताहस्य प्रथमदिवसे आर्यसमाजे कठुआनगरे आध्यात्मिके वातावरणे ज्ञानगङ्गा प्रवाहिताऽभवत्। कार्यक्रमस्य मुख्यवक्त्री पूजनीया सुश्री गायत्रीदेवीवर्या भगवद्गीतायाः प्रथमाध्याये स्वविचारान् प्रस्तूय ‘अर्जुनसंवादस्य’ गाम्भीर्यं प्रकाशयामास। सा अवदत् यत् कथं अर्जुनस्य मानसिकः द्वन्द्वः अद्यतनमानवस्य असमञ्जसपूर्णस्थितेः प्रतीकः अस्ति, यत्र कर्तव्यस्य भावनानां च मध्ये संघर्षः जायते। गायत्रीदेवीवर्या गीतायाः अस्य संवादस्य आत्मचिन्तनस्य, साहसस्य धर्ममार्गे च गमनस्य प्रेरणारूपेण विवेचनं कृतवती।

अस्मिन् अवसरे मुख्यातिथिः समाजसेवकः श्री कलाशाहवर्यः प्रेरणादायकान् विचारान् प्रस्तुत्य समाजे गीतायाः सन्देशं जनजनं प्रति प्रापयितुं आवश्यकतायां बलं दत्तवान्। संरक्षकः श्री भारतभूषणवर्य गरिमामय्या उपस्थित्या कार्यक्रमाय विशेषां ऊर्जां प्रदत्तवान्। आर्यसमाज-कठुआनगरस्य अध्यक्षः तथा समाजस्य मार्गदर्शकस्तम्भः विशनभारती स्वस्य ओजस्विनि उद्बोधने सर्वान् आगन्तुकान् स्वागतं कृत्वा स्वामीश्रद्धानन्दवर्यस्य जीवनात् प्रेरणां ग्रहीतुम् आह्वानं कृतवान्। तस्य नेतृत्वपूर्णाः शब्दाः उपस्थितजनसमूहे नवाम् ऊर्जां उत्साहं च सञ्चारितवन्तः।

कार्यक्रमे स्थानीयनागरिकाणां, विद्वज्जनानां युवानां च उत्साहपूर्णा सहभागिता अभवत्। गीताज्ञानसप्ताहः प्रतिदिनं मध्याह्ने एकवादनात् चतुर्वादनपर्यन्तं आयोज्यते, यस्मिन् विभिन्नेषु अध्यायेषु विद्वद्भिः प्रवचनानि भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता