Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 17 दिसंबरमासः (हि.स.)।
राष्ट्रियसेवायोजनायाः तिलकामांझीभागलपुरविश्वविद्यालयस्य भागलपुरे बुधवासरः ऐतिहासिकः अभवत्। बिहारझारखण्डक्षेत्रीयनिदेशालयस्य निदेशकः विनयकुमारः राष्ट्रियैकताशिविरस्य तयारीसमीक्षासभायै तथा कार्यक्रमस्थलनिरीक्षणाय आगतः। अद्य प्रातः दशवादनतः सायं चतुर्वादनपर्यन्तं निरन्तरं राष्ट्रियैकताशिविरस्य तयारीसम्बन्धिनिरीक्षणसभानां क्रमः प्रवृत्तः।
प्रथमं प्रातः दशवादने कार्यक्रमसमन्वयकस्य नेतृत्वे स्वयंसेवक आनन्दस्य नेतृत्वे सम्पन्नां एनएसएस परेडं क्षेत्रीयनिदेशकः समीक्षितवान्। तदत्पश्चात् सः टीएनबी महाविद्यालयं प्राप्तवान्, यत्र प्रधानाचार्यनिवासस्य, क्रीडाङ्गणस्य तथा अल्पसंख्यकछात्रावासस्य निरीक्षणं कृतवान्। अनन्तरं कार्यक्रमस्थलनिश्चित्यर्थं मारवाड़ीमहाविद्यालयस्य महिला प्रभागे निरीक्षणं कृत्वा प्रधानाचार्येण कार्यक्रमपदाधिकारीणां च सह बैठकां कृतवान्।
उभयोः महाविद्यालययोः निरीक्षणानन्तरं खेलो इण्डिया सभागृहस्य निरीक्षणं कृतम्। अन्ते विश्वविद्यालये विश्वविद्यालयाधिकारिभिः, प्रधानाचार्यैः तथा कार्यक्रमपदाधिकारीभिः सह बैठकाऽभवत्। तस्यां बैठके निश्चयं कृतं यत् राष्ट्रियैकताशिविरस्य आयोजनं चतुर्थफरवरीतिथेः आरभ्य भविष्यति, मुख्यकार्यक्रमस्थलं मारवाड़ीमहाविद्यालयस्य महिला प्रभागः भविष्यति, पञ्चदशराज्येभ्यः द्विशतं प्रतिभागिनः आगमिष्यन्ति, उद्घाटनार्थं च महामहिमराज्यपालमहोदयस्य आमन्त्रणं करिष्यते।
अस्मिन् कार्यक्रमे मारवाड़ीमहाविद्यालयस्य प्रधानाचार्यः, बीएन महाविद्यालयस्य प्रधानाचार्यः, टीएनबी महाविद्यालयस्य प्रधानाचार्यः, वित्तपदाधिकारी ब्रजकिशोरप्रसादः, विकासपदाधिकारी अनिलकुमारः, राज्यकार्यालयाधिकारी जैनेंद्रकुमारः, कार्यक्रमसमन्वयकः डॉ राहुलकुमारः, मुख्यालयस्थितैककानां कार्यक्रमपदाधिकारिणः तथा सक्रियस्वयंसेवकाः मृगांकी, निधिः, दिव्यः, चन्दनः, राजा, ऋषभः च उपस्थिताः आसन्।
अस्य सम्पूर्णकार्यक्रमस्य सफलतायै कार्यालयकर्मिणौ मूलचन्दयादवः तथा बीवीलाडली च महत्त्वपूर्णं सहयोगं कृतवन्तौ।
---------------
हिन्दुस्थान समाचार