भजन-कीर्तनेन लंगरभोजेन सह समाचरितस्य गुरु नानक देवस्य 556तमं प्रकाशपर्व
मीरजापुरम्, 17 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदस्य राजगढस्थिते गुरुद्वारे बुधवासरे सिखधर्मस्य प्रथमगुरोः श्रीगुरुनानकदेवस्य पञ्चशतपञ्चाशदधिकपञ्चपञ्चाशत्तमः (५५६) जन्मोत्सवः महतीया श्रद्धया उल्लासेन च प्रकाशपर्वरूपेण आचरितः। अस्मिन
नगर भ्रमण करते सिख समुदाय के लोग।


मीरजापुरम्, 17 दिसंबरमासः (हि.स.)।

उत्तरप्रदेशस्य मीरजापुरजनपदस्य राजगढस्थिते गुरुद्वारे बुधवासरे सिखधर्मस्य प्रथमगुरोः श्रीगुरुनानकदेवस्य पञ्चशतपञ्चाशदधिकपञ्चपञ्चाशत्तमः (५५६) जन्मोत्सवः महतीया श्रद्धया उल्लासेन च प्रकाशपर्वरूपेण आचरितः। अस्मिन् अवसरे गुरुद्वारात् श्रीगुरुग्रन्थसाहिबस्य भव्यया झांक्या नगरभ्रमणं कृतम्, या भजनकीर्तनैः शबदगायनैः च सह नगरं परिभ्रम्य पुनः गुरुद्वारं प्राप्य समापिता।

प्रकाशपर्वणः उपलक्ष्ये राजगढगुरुद्वारे त्रिदिनपर्यन्तं अखण्डपाठः, शबदकीर्तनं तथा धार्मिककार्यक्रमाणां आयोजनं कृतम्। अमृतसरनगरात् आगतः कथावाचकः ज्ञानीमंगलजीतसिंहः श्रीगुरुनानकदेवजीस्य जीवनदर्शनं तेषां उपदेशांश्च प्रकाशयन् संगतां आनन्दितवान्। भजनकीर्तनकाले सरदारगुरुदेवसिंहसहितैः अन्यैः रागीजथ्थैः गुरुवाण्याः मधुरं गायनं कृतम्।

नगरभ्रमणकाले सिखसमुदायस्य जनाः पारम्परिकवेषभूषायां खड्गैः सह गतका नामकस्य युद्धकलाकौशलस्य प्रदर्शनं कृतवन्तः, यत् दृष्ट्वा श्रद्धालवः विस्मिताः अभवन्। बालकैः प्रदर्शिताः विविधाः कर्तबाः झांक्याः विशेषाकर्षणं अभवन्। प्रायः त्रिकिलोमीटरपरिमिते नगरभ्रमणे “वाहे गुरु” इति जयघोषैः सम्पूर्णं वातावरणं भक्तिमयं जातम्।

प्रकाशपर्वणः अवसरे गुरुद्वारे विशालस्य लंगरभोजस्य (भण्डारस्य) आयोजनं कृतम्, यस्मिन् सिखहिन्दूमुस्लिमसमुदायस्य जनाः एकत्र उपविष्टाः सन्तः प्रसादं स्वीकृतवन्तः। अस्यां झांक्यां अहरौरा ओबरा रावटसगंज इत्यादिभ्यः समीपवर्तिक्षेत्रेभ्यः आगताः बहवः श्रद्धालवः अपि महत्या संख्यया सहभागिनः अभवन्।

---------------

हिन्दुस्थान समाचार