ओडीओपी 2.0 इत्यस्य रणनीतिं सज्जीकुरुते योगिसर्वकारः
-वित्त पोषणं, तकनीक्याः उन्नयनं निर्यात वृद्धिं केंद्रितम्-योजनान्तर्गता अनुदानसीमा वर्धयित्वा 50 लक्षमिता भवेदिति प्रस्तावः लखनऊ, 17 दिसंबरमासः (हि.स.)।मुख्यमन्त्रिणा योगिना आदित्यनाथेन प्रवर्तिता महत्वाकाङ्क्षी एको जनपदः एकः उत्पादः (ओडीओपी) यो
मुख्यमंत्री योगी


-वित्त पोषणं, तकनीक्याः उन्नयनं निर्यात वृद्धिं केंद्रितम्-योजनान्तर्गता अनुदानसीमा वर्धयित्वा 50 लक्षमिता भवेदिति प्रस्तावः

लखनऊ, 17 दिसंबरमासः (हि.स.)।मुख्यमन्त्रिणा योगिना आदित्यनाथेन प्रवर्तिता महत्वाकाङ्क्षी एको जनपदः एकः उत्पादः (ओडीओपी) योजना अधिकं प्रभावशीलां कर्तुम् उद्दिश्य प्रदेशशासनस्य एमएसएमई विभागः ओडीओपी २.० इति नूतनरणनीतिं निर्मातुम् आरब्धवान्। अस्याः अन्तर्गतं वर्तमानयोजनाः अधिकं प्रासङ्गिकाः परिणामोन्मुख्यः च भविष्यन्ति, तथा च नूतनाःप्रारंभाः अपि समावेशयिष्यन्ते।

मुख्यमन्त्री योगी आदित्यनाथः ओडीओपी २.० विषये अद्यतनं आयोजितायां उच्चस्तरीयसमीक्षासभायां अवदत् यत् एषा योजना इदानीं केवलं योजना नास्ति, अपि तु स्थायिजीविकायाः स्थानीयउद्यमस्य तथा निर्यातस्य नवोन्नतिशिखरप्राप्तये सशक्तं साधनं भविष्यति। मुख्यमन्त्रिणः अस्य दृष्टेः अनुरूपमेव एमएसएमई विभागः ओडीओपी २.० इत्यस्य भूमौ कार्यान्वयनार्थं प्रवृत्तः अस्ति।

अनुदानसीमावर्धनप्रस्तावः

ओडीओपी २.० अन्तर्गतं वित्तपोषणसहायतायोजना पीएमईजीपी योजनायाः आदर्शेन विस्तारितुं प्रस्तावः अस्ति। सफलयूनिट्सभ्यः तन्त्रज्ञानोन्नयनाय, गुणवत्तावर्धनाय तथा पैकेजिंगार्थं एडऑन ऋणं प्रदास्यते। द्वितीयऋणप्राप्त्यर्थं प्रथमऋणस्य समयबद्धा अदायगी अनिवार्या भविष्यति तथा टर्म ऋणस्य न्यूनतमं पञ्चाशत्प्रतिशतं भागं सुनिश्चितं कर्तव्यं भविष्यति। अस्यैव सह अनुदानसीमां वर्तमानं विंशतिलक्षात् वर्धयित्वा पञ्चाशतिलक्षपर्यन्तं कर्तुं अपि प्रस्तावः अस्ति।

ओडीओपी सामान्यसुविधाकेन्द्र योजना अन्तर्गतं एमएसई सीडीपी मार्गदर्शिकानुसारं एकः समेकितः शासनादेशः निर्गन्तुं प्रस्तावितः अस्ति। अस्याः अन्तर्गतं न्यूनतमसदस्यानां संख्या विंशतेः दशपर्यन्तं न्यूनीकर्तुं, राज्यांशं नवतिप्रतिशतपर्यन्तं स्थापयितुं तथा किश्तिवितरणं पञ्चाशत् चत्वारिंशत् दशप्रतिशत इति अनुपातेन कर्तुं व्यवस्था सम्भाव्यते। तन्त्रज्ञानोन्नयनाय तथा पैकेजिंगार्थं पञ्चकोटिरूप्यकपरियोजनायां पञ्चसप्ततिप्रतिशतपर्यन्तं, अधिकतमं त्रिकोटिसप्ततिपञ्चलक्षपरिमितां, अतिरिक्तसहायतां दातुं अपि प्रस्तावः अस्ति।

उद्योगविभागस्य आयुक्तः तथा निदेशकः के विजयेन्द्र पाण्डियनः अवदत् यत् मुख्यमन्त्री योगी आदित्यनाथेन संवत् २०१८ मध्ये आरब्धः ओडीओपी कार्यक्रमः अद्य प्रदेशस्य निर्यातवृद्धेः प्रमुखः आधारः अभवत्। वित्तीयवर्षात् २०१७ १८ आरभ्य अद्यपर्यन्तं प्रदेशस्य कुलनिर्यातवृद्धौ प्रायः पञ्चाशत्प्रतिशतं योगदानं अस्याः योजनायाः अस्ति। संवत् २०१७ मध्ये यत्र प्रदेशस्य कुलनिर्यातः अष्टाशीतिसहस्रकोटिरूप्यकपरिमितः आसीत्, तत्र २०२४ संवत्सरे सः वर्धित्वा एकलक्षषट्यशीतिसहस्रकोटिरूप्यकपर्यन्तं प्राप्तः। अस्मिन् ओडीओपी उत्पादानां योगदानं प्रायः त्रिनवतिसहस्रकोटिरूप्यकपरिमितं आसीत्।

अतिरिक्तं च, अद्यपर्यन्तं अस्याः योजनायाः अन्तर्गतं एकलक्षपञ्चविंशतिसहस्रात् अधिकानि टूलकिट्स वितरितानि, षट्सहस्रकोटिरूप्यकात् अधिकं ऋणं उपलब्धीकृतं तथा अष्टसहस्रात् अधिकेभ्यः लाभार्थिभ्यः विपणनसहायता प्रदत्ता। ओडीओपी अन्तर्गतं त्रिंशत् सामान्यसुविधाकेन्द्राणि स्वीकृतानि सन्ति। चतुश्चत्वारिंशत् उत्पादेभ्यः जीआई ट्यागः प्राप्तः अस्ति तथा प्रतिष्ठितेषु ईकॉमर्स मंचेषु ओडीओपी उत्पादानां सुदृढा उपस्थितिः सुनिश्चिताभवत्। एतासां उल्लेखनीयानां उपलब्धीनां कारणेन उत्तरप्रदेशः द्विवारं राष्ट्रियओडीओपी पुरस्कारैः सम्मानितः अभवत्।

हिन्दुस्थान समाचार