विजय दिवसे दिल्ल्यां राष्ट्रपतेः हस्तेन सम्मानितो जातः कैप्टन मनोजपांडेयस्य भ्राता
-मनमोहन पांडेयाय लब्धं राष्ट्रपतिभवने सम्मानम् सीतापुरम्, 17 दिसंबरमासः (हि.स.)।विजयदिवसस्य अवसरे देशस्य राजधानीस्थे नवीदिल्लीनगरे राष्ट्रपतिभवने आयोजिते समारोहे सीतापुरजनपदस्य गौरवभूतस्य कारगिलयुद्धस्य नायकस्य परमवीरचक्रविजेतुः अमरशहीदस्य कैप्टन
मनमोहन पांडे को सम्मानित करती महामहिम राष्ट्रपति


राष्ट्रपति भवन में सम्मानित होने के दौरान ग्रुप फोटो


-मनमोहन पांडेयाय लब्धं राष्ट्रपतिभवने सम्मानम्

सीतापुरम्, 17 दिसंबरमासः (हि.स.)।विजयदिवसस्य अवसरे देशस्य राजधानीस्थे नवीदिल्लीनगरे राष्ट्रपतिभवने आयोजिते समारोहे सीतापुरजनपदस्य गौरवभूतस्य कारगिलयुद्धस्य नायकस्य परमवीरचक्रविजेतुः अमरशहीदस्य कैप्टन मनोजपाण्डेयस्य परिवारः विशेषसम्मानेन अलङ्कृतः। राष्ट्रपतिः श्रीमती द्रौपदीमुर्मु कारगिलहुतात्मनो लघुभ्रातरं मनमोहनपाण्डेयं स्मृतिचिह्नं प्रदाय सम्मानितवती।

इदं सम्मानं षोडशे दिसम्बरमासे राष्ट्रपतिभवने नवनिर्मितायाः परमवीरदीर्घायाः उद्घाटनावसरे प्रदत्तः, यत्र देशस्य सर्वोच्चेन सैन्यसम्मानेन परमवीरचक्रेण विभूषितानां वीराणां वीरगाथाः संरक्षिताः सन्ति। अस्मिन् समारोहे कारगिलशहीदस्य कैप्टन मनोजपाण्डेयस्य अदम्यसाहसं, राष्ट्रस्य प्रति तस्य सर्वोच्चं बलिदानं, कारगिलयुद्धे प्रदर्शिता वीरता च श्रद्धया स्मरिता।

सम्मानं प्राप्य मनमोहनपाण्डेयः अवदत् यत् एषः क्षणः न केवलं तस्य परिवारस्य, अपि तु सम्पूर्णस्य सीतापुरस्य प्रदेशस्य च गौरवस्य विषयः अस्ति। सः उक्तवान् यत् तस्य भ्रात्रा देशस्य अखण्डतायै सम्मानाय च स्वसर्वस्वं समर्पितम्, यत् भारतदेशः कदापि विस्मर्तुं न शक्नोति।

बलिदानिनः कैप्टन मनोजपाण्डेयस्य ग्रामः सीतापुरजनपदस्य कमलापुरकस्बान्तर्गतः रूढा नामकः अस्ति।

अस्मिन् अवसरॆ रक्षामन्त्री राजनाथसिंहः, चीफ् आफ् डिफेन्स् स्टाफ् सीडीएस् जनरल् उपेन्द्रचौहानः, थलसेनाध्यक्षः जनरल् उपेन्द्रद्विवेदी, वायुसेनाध्यक्षः एयर् चीफ् मार्शल् ए पी सिंहः, नौसेनाप्रमुखः एडमिरल् दिनेशकुमारत्रिपाठीः, अन्ये गणमान्यव्यक्तयः, सेनानां वरिष्ठाः अधिकारिणः तथा परमवीरचक्रविजेतॄणां परिजनाः च उपस्थिताः आसन्।

राष्ट्रपतिना प्रदत्तः अयं सम्मानः शहीदस्य कैप्टन मनोजपाण्डेयस्य अमरगाथां भावीपीढीपर्यन्तं प्रापयितुं प्रेरणादायकः महत्त्वपूर्णश्च कदमः इति मन्यते।

---------------

हिन्दुस्थान समाचार