Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 17 दिसंबरमासः (हि.स.)।
उत्तराखण्ड-राज्यस्य कृषिमन्त्री गणेशजोशीः बुधवासरे स्वस्य शिविर-कार्यालयात् जिला-योजनाया अन्तर्गतं देहरादून-जनपदस्य अष्टाविंशति (२८) कृषकाणां दलं तथा द्वौ उद्यान-कर्मिणौ हरी-ध्वजं दर्शयित्वा प्रेषितवान्। अयं दलः हिमाचलप्रदेशे नौणी–सोलन-स्थिते डॉ. वाई.एस्. परमार-कृषि-वानिकी-विश्वविद्यालये पञ्चदिवसीयं सेब-कीवी-उत्पादन-प्रशिक्षणं ग्रहीतुं गच्छति।
अस्मिन् अवसरॆ कृषिमन्त्री जोशीः अवदत् यत् प्रदेशे सेब-कीवी-प्रभृतीनां उच्चमूल्ययुक्तानां फसलेनां विशालाः सम्भावनाः सन्ति। एतादृशैः प्रशिक्षण-कार्यक्रमैः कृषकाः आधुनिक-प्रौद्योगिकीं उन्नत-जातीनां ज्ञानं पादप-संरक्षणं विपणन-विधिं च अवगन्तुं शक्नुवन्ति येन तेषां आयायां वृद्धिः भविष्यति। सः अवदत् यत् राज्य-सरकारा कृषकान् आत्मनिर्भरान् कर्तुं निरन्तरं प्रयत्नशीलाऽस्ति। मन्त्री विश्वासं व्यक्तवान् यत् प्रशिक्षणं समाप्य प्रत्यागताः कृषकाः स्वानुभवान् अन्येभ्यः कृषकेभ्यः अपि वितरिष्यन्ति येन जनपदे प्रदेशे च उद्यान-कृषेः नूतना दिशा लभ्यते।
उल्लेखनीयं यत् एतस्मात् पूर्वं देहरादून-जनपदस्य षट्पञ्चाशत् (५६) कृषकाः संरक्षित-कृषेः (पाली-हाउस) प्रशिक्षणार्थं पन्तनगर-विश्वविद्यालयं प्रेषिताः आसन्।
हिन्दुस्थान समाचार