मुख्यमन्त्री नितीशः बिहारसरस-मेला–2025 इत्यस्मिन मेलास्थले भ्रमणं कृतवान्।
पटना, 18 दिसम्बरमासः (हि.स.)। मुख्यमन्त्री नितीशः कुमारः गुरुवासरे अत्र गांधीमैदाने आयोजितं बिहारसरस्-मेला–2025 इत्यस्य भ्रमणं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री अत्र व्यवस्थाः च उपलब्धाः सुविधाः च अवगतम्। अधिकारिणः मुख्यमन्त्रिणे उक्तवन्तः यत् बि
बिहार सरस मेले का भ्रमण करते मुख्यमंत्री नीतीश


पटना, 18 दिसम्बरमासः (हि.स.)। मुख्यमन्त्री नितीशः कुमारः गुरुवासरे अत्र गांधीमैदाने आयोजितं बिहारसरस्-मेला–2025 इत्यस्य भ्रमणं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री अत्र व्यवस्थाः च उपलब्धाः सुविधाः च अवगतम्। अधिकारिणः मुख्यमन्त्रिणे उक्तवन्तः यत् बिहार-सरस्-मेला–2025 इत्यस्य आयोजनं द्वादश-दिसम्बरात् अष्टाविंशतिम् दिसम्बरपर्यन्तं क्रियते। अस्मिन् मेले बिहारात् अपि अन्येषां राज्येषु अपि जनाः स्व-उत्पादानां विक्रयं कुर्वन्ति। अस्मिन् मेले हस्तशिल्प, लोककला च देशीय-भोजनानां प्रदर्शनी च आयोजिता।

भ्रमणकाले मुख्यमन्त्री अत्र स्थापितानि विभिन्न-स्टॉलानि निरीक्षितवन्तः। निरीक्षणकाले ते विविध-उत्पादानां विवरणं अपि प्राप्तवन्तः। उपस्थित-उत्पादकाः विक्रेतृश्च मुख्यमन्त्रिणे उक्तवन्तः यत् अस्मिन मेले यानि सामानानि प्रदर्शितानि तानि जनैः प्रियं क्रियन्ते, तथा विक्रयः अपि सुसम्पन्नः। अत्र व्यवस्थां अतीव उत्तमं इति सर्वे सन्तुष्टाः।

मुख्यमन्त्री उक्तवन्तः यत् बिहार-सरस्-मेलायाः स्वकीयं विशेषं लक्षणं अस्ति। अस्मिन मेले यानि उत्पादाः प्रदर्शिताः तानि दृष्ट्वा हर्षः प्रकटः। ग्रामिण-उद्यमितायाः प्रोत्साहनार्थं सर्वकारेण बहवः उपायाः कृताः। सतत् जीविकोपार्जनयोजनायाः अन्तर्गतं जीविकादीदी प्रोत्साहिताः । तेषां जीविका-संवर्धनाय स्वरोजगाराय च सर्वकारेण साहाय्यं प्रदत्तम्। अतीव हर्षजनकं यत् अत्र अपि तेषां उत्पादानां बहवः मञ्चाः स्थापिताः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani