Enter your Email Address to subscribe to our newsletters

लखनऊ, 18 दिसंबरमासः (हि.स.)। मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारेण सामाजिकन्यायस्य समावेशीविकासस्य च दिशायाम् अन्यतमा ऐतिहासिका उपलब्धिः साधिता अस्ति। मुख्यमन्त्री आवासयोजना ग्रामीणान्तर्गतं आदिवासिजनानां, दैवीयआपदापीडितानां, दिव्याङ्गजनानां तथा समाजस्य सर्वनिम्नस्तरे स्थितानां वञ्चितवर्गाणां कृते अभिलेखीयसंख्यायां त्रिसप्ततिद्विलक्षसहस्रं पक्कगृहाणि वितीर्णानि सन्ति। एषा उपलब्धिः योगीसर्वकारस्य तस्य प्रतिबद्धतायाः प्रमाणं ददाति, यस्याम् विकासस्य लाभः अन्तिमव्यक्तिपर्यन्तं प्रापयितुं प्राथमिकता दीयते।
उल्लेखनीयं यत् मुख्यमन्त्री आवासयोजना ग्रामीणस्य आरम्भः फेब्रुवरी २०१८ मासे कृतः। अस्याः योजनायाः उद्देश्यं ग्रामीणप्रदेशेषु निवसतां गृहविहीनानां अत्यावश्यकतायुक्तानां च परिवाराणां कृते सम्मानजनकं पक्कगृहं उपलब्धं कर्तुम् अस्ति।
अत्यावश्यकवर्गेभ्यः प्रथमं आवासप्रदानम्
राज्यसर्वकारस्य प्रवक्तृवाक्यानुसारं आवासआवंटने स्पष्टतया आवश्यकता संवेदनशीलता च आधाररूपेण स्वीकृते स्तः। दैवीयआपदापीडितेभ्यः सर्वाधिकं त्रिणवति सहस्रत्रिशत पक्कगृहाणि आवंटितानि, दिव्याङ्गजनेभ्यः एकनवतिसहस्र द्विषष्ट्यधिकानि आवासानि प्रदत्तानि। तदतिरिक्तं मुसहरसमुदायाय पञ्चाशत्सहस्राधिकानि गृहाणि, निराश्रितविधवामहिलाभ्यः एकचत्वारिंशत्सहस्राधिकानि आवासानि प्रदत्तानि सन्ति। एतेषां तथ्याङ्कानां द्वारा स्पष्टं भवति यत् योगीसरकारस्य दृष्टिः तेषु वर्गेषु केन्द्रिता अस्ति, ये बहुदशकपर्यन्तं शासकीययोजनाभ्यः वञ्चिताः आसन्।
वनटांगियात् बंजारपर्यन्तं वञ्चितानां स्वगृहप्राप्तिः
मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे वनटांगिया, मुसहर, थारू, कोल, सहरिया, चेरो, बैगा, नट, बंजारा इत्यादयः अतिपिछडाः वञ्चितसमुदायाः प्रथमवारं विशालप्रमाणे दृढावासं प्राप्तवन्तः। एते एव ते वर्गाः आसन्, ये पूर्वं केवलं सांख्यिकीषु दृश्यन्ते स्म, योजनासु तु न। अधुना मुख्यमन्त्री योगी आदित्यनाथस्य दूरदर्शीविजनस्य फलस्वरूपेण एतेषां स्वकीयः अधिकारः सुनिश्चितः अभवत्।
हिन्दुस्थान समाचार