Enter your Email Address to subscribe to our newsletters

कोलकाता, 18 दिसंबरमासः (हि.स.)।पश्चिमबङ्गालस्य मुख्यमन्त्री ममता बनर्जी गुरुवासरे अल्पसंख्यकअधिकारदिवसस्य अवसरॆ सामाजिकमाध्यममञ्चे “एक्स्” इत्यत्र विस्तृतं लेखनं कृत्वा स्वसरकारेण अल्पसंख्यकसमुदायस्य विकासाय कृतकार्याणां विवरणं दत्तवती। सा अवदत् यत् अल्पसंख्यकविकासे तस्याः सरकारेण अभूतपूर्वं कार्यं कृतं भवति तथा अद्यापि क्रियते।
मुख्यमन्त्री अवदत् यत् अल्पसंख्यकविभागस्य योजनाबजट् दशगुणात् अधिकं वर्धितम् अस्ति। २०१० ११ तमे वर्षे यत् बजट् ४७२ कोटिरूप्यकाणि आसीत्, तत् २०२५ २६ तमे वर्षे वर्धित्वा ५६०२ कोटिरूप्यकाणाम् अधिकं जातम्।
ममता बनर्जी तथ्योपस्थापनं कृतवती यत् अल्पसंख्यकछात्रवृत्तिविषये बङ्गालराज्यं देशे प्रथमस्थाने अस्ति। अल्पसंख्यकछात्रछात्राणां कृते राज्यसर्वकारस्य व्यये “ऐक्यश्री” छात्रवृत्तिः आरब्धा अस्ति। २०११ तः अद्यावधि प्रायः १०२०८ कोटिरूप्यकाणि व्ययीकृत्य ४ कोटि ८५ लक्षाधिकानि अल्पसंख्यकछात्रवृत्तीनि प्रदत्तानि सन्ति।
देशान्तरे देशे वा उच्चशिक्षार्थं अल्पसंख्यकछात्रछात्राभ्यः ३० लक्षरूप्यकपर्यन्तं शैक्षणिकऋणं दीयते। गतपञ्चदशवर्षेषु प्रायः ४० सहस्राणि अल्पसंख्यकछात्रछात्राः ३२७ कोटिरूप्यकाणां शैक्षणिकऋणं प्राप्तवन्तः। एतेन सह छात्रक्रेडिट्कार्ड् सुविधाऽपि उपलब्धा अस्ति। अल्पसंख्यकानां सहितं अन्यपिछडावर्गस्य छात्रछात्राणां कृते “मेधाश्री” परियोजना अपि आरब्धा अस्ति।
२०११ तः अद्यावधि अल्पसंख्यकयुवकयुवतीनां तथा स्वसहायसमूहसदस्यानां आत्मनिर्भरता उद्देश्येन १६ लक्ष ३१ सहस्र लाभार्थिभ्यः ३९२६ कोटिरूप्यकाणां ऋणं प्रदत्तम्।
ममता बनर्जी अवदत् यत् बहुक्षेत्रीयविकासपरियोजनाया अन्तर्गतं साढे चतुर्सहस्र कोटिरूप्यकाणाम् अधिकं व्ययीकृत्य अल्पसंख्यकबहुलप्रदेशेषु प्रायः २ लक्षाणि आधारभूतसंरचनाः निर्मिताः सन्ति। अल्पसंख्यकनिराश्रितमहिलानां गृहनिर्माणाय १ लक्ष २० सहस्र रूप्यकाणि अनुमोद्यन्ते। अद्यावधि २ लक्ष ६० सहस्र २७ जनाः २४५६ कोटिरूप्यकाणाम् अधिकं सहाय्यं प्राप्तवन्तः।
मुख्यमन्त्री अवदत् यत् १४ जिलेषु आङ्ग्लमाध्यममॉडेल् मदरसाः स्थाप्यन्ते। ३८ एकीकृताः आङ्ग्लमाध्यमविद्यालयाः अपि स्थाप्यन्ते। ३६६ अन्ये मदरसाः अनुदानरहितमदरसरूपेण मान्यतां प्राप्तवन्तः। मदरसासेवाआयोगस्य माध्यमेन मदरसासु शिक्षकाः तथा शैक्षणिककर्मचारिणः नियुक्ताः क्रियन्ते। यत्र दशप्रतिशताधिकाः उर्दूभाषाभाषिणः सन्ति, तत्र उर्दूभाषा राजकीयभाषारूपेण मान्यतां प्राप्तवती। इस्लामपुरे आसनसोल्नगरे च उर्दूअकादेम्याः क्षेत्रीयकेन्द्राणि आरब्धानि।
मुख्यमन्त्री तथ्यं प्रस्तुतवती यत् प्रायः ६९ सहस्राणि इमामाः मोअज्जिनाः च राज्यसर्वकारस्य विविधकल्याणयोजनानां विषये जनान् जागरूकान् कुर्वन्ति। अल्पसंख्यकविकासपरिषदः तथा अल्पसंख्यककौशलविकासबोर्ड् इत्येतयोः गठनं कृतम्। मुर्शिदाबादे अल्पसंख्यकसांस्कृतिकविकासकेन्द्रं निर्मीयते।
अन्ते मुख्यमन्त्री सर्वेभ्यः अल्पसंख्यकअधिकारदिवसस्य शुभाशयान् अपि प्रेषितवती।
---------------
हिन्दुस्थान समाचार