Enter your Email Address to subscribe to our newsletters

रायपुरम् 18 दिसंबरमासः (हि.स.)।
यात्रिकाणां सुविधावर्धनाय तथा तत्कालटिकट् आरक्षणप्रक्रियायाः अधिकं पारदर्शकं, सुरक्षितं सुचारुं च कर्तुं दक्षिणपूर्वमध्यरेल्वेद्वारा यात्रीआरक्षणप्रणाली (पीआरएस) काउण्टरेषु तत्कालटिकट् आरक्षणाय ओटीपी (वन टाइम पासवर्ड) आधारितव्यवस्था प्रवर्त्यते। एषा सुविधा अद्य गुरुवासरात् १८ दिसम्बरदिनाङ्कात् दक्षिणपूर्वमध्यरेल्वेपरतः प्रारम्भ्यमाणानां षट् रेलयानानां कृते पीआरएसगवाक्षेषु प्रभावी भविष्यति।
अस्यां ओटीपी आधारितव्यवस्थायां तत्कालटिकट् आरक्षणकाले यात्रिकस्य पञ्जीकृतदूरभाषासङ्ख्यायां ओटीपी प्रेष्यते। तस्य ओटीपी प्रविष्टिकरणानन्तरमेव टिकट् आरक्षणं सम्भविष्यति। एतेन मिथ्यारक्षणं, बॉट्स् इत्यादीनां दुरुपयोगः तथा अनधिकृतक्रियाकलापाः प्रभावीरीत्या नियन्त्रिताः भविष्यन्ति, येन वास्तविकयात्रिकाः अधिकं लाभं प्राप्स्यन्ति।
दक्षिणपूर्वमध्यरेल्वेविभागतः प्रारम्भ्यमाणासु यासु रेलयानेषु एषा सुविधा प्रवर्तिता अस्ति, ताः एताः सन्ति—
1. 20423 – पातालकोट् एक्सप्रेस
2. 12853 – अमरकण्टक् एक्सप्रेस
3. 18234 – नर्मदा एक्सप्रेस
4. 19344 – पञ्चवेली एक्सप्रेस
5. 18241 – दुर्ग–अम्बिकापुर् एक्सप्रेस
6. 18242 – अम्बिकापुर्–दुर्ग एक्सप्रेस
रेल्वेप्रशासनद्वारा सर्वेषु मण्डलेषु निर्देशः दत्तः अस्ति यत् अस्याः नूतनव्यवस्थायाः सम्यक् पूर्वतैयारी सुनिश्चितं कुर्वन्तु, येन पीआरएस काउण्टरेषु तत्कालटिकट् आरक्षणं कुर्वतां यात्रिकाणां किमपि असुविधा न जायेत।
दक्षिणपूर्वमध्यरेल्वेविभागो यात्रिकेभ्यः सुरक्षितां, सरलां, विश्वासार्हां च चिटिकासुविधां दातुं निरन्तरं प्रयत्नशीलं वर्तते।
हिन्दुस्थान समाचार