Enter your Email Address to subscribe to our newsletters

पटना, 18 दिसंबरमासः (हि.स.)।
भारतीयजनतापक्षः (भाजपा) इति दलस्य प्रदेशाध्यक्षः संजय सरावगी गुरुवासरे कार्यभारं ग्रहणं करिष्यति। सः अपराह्ने द्वादशवादनत्रिंशत् (१२:३०) वादने भाजपा प्रदेशकार्यालये अष्टादशः प्रदेशाध्यक्षरूपेण पदभारं स्वीकरिष्यति। भाजपा मीडिया प्रभारी दानिश इकबालः अवदत् यत् सर्वेभ्यः जिलेभ्यः बहुसंख्यकाः कार्यकर्तारः पटनानगरं आगच्छन्ति तथा अस्मिन् समारोहे सहभागं करिष्यन्ति।
दानिश इकबालः अपि अवदत् यत् भाजपा प्रदेशमुख्यालये आयोजिते अस्मिन् समारोहे निवर्तमानः प्रदेशाध्यक्षः दिलीप जायसवालः औपचारिकरूपेण संजय सरावगये कार्यभारं समर्पयिष्यति। अस्मिन् अवसरॆ उपमुख्यमंत्री सम्राट चौधरी तथा दलस्य वरिष्ठनेता विजय कुमार सिन्हा अपि उपस्थिताः भविष्यन्ति।
दलद्वारा तस्य स्वागताय नगरे विशेषतयः सज्जीकरणं कृतम्। प्रदेशकार्यालयं प्रति गच्छन्तु मार्गेषु दलध्वजाः, बैनराः, पोस्टराणि च स्थाप्यन्ते, विविधस्थानेषु च तोरणद्वाराणि निर्मीयन्ते।
पटनानगरम् आगत्य अनन्तरं संजय सरावगी उच्चन्यायालयस्य समीपे संविधाननिर्मातुः बाबा साहेब भीमराव अंबेडकरस्य आदमकदप्रतिमायां माल्यार्पणं कृत्वा श्रद्धांजलिं समर्पयिष्यति। ततः अनन्तरं सः सहस्रशः कार्यकर्तृभिः परिवृतः खुलायां जीपयाने आरूढः प्रदेशकार्यालयं प्रति प्रस्थानं करिष्यति। अस्मिन् एव क्रमॆ आयकर गोलम्बरस्य समीपे स्थितायां जयप्रकाशनारायणस्य प्रतिमायाम् अपि माल्यार्पणं कृत्वा श्रद्धांजलिम् अर्पयिष्यति।
---------------
हिन्दुस्थान समाचार