Enter your Email Address to subscribe to our newsletters

-योगी सर्वकारस्य उपहारः-300 कोटिमितव्ययेन सज्जः अमेठ्याः स्वशासी चिकित्सा महाविद्यालयः
-31 जनवरीं यावत् 300 शयिकावतां चिकित्सालयः अथ च क्रिटिकल केयरविभागः भविष्यतः हस्तान्तरितौ
- अमेठीचिकित्सामहाविद्यालयः निर्मास्यते चिकित्सा शिक्षायाः नूतनं केंद्रम्
अमेठी, 18 दिसम्बरमासः(हि.स.)
मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य सरकारः स्वास्थ्यसेवानां सुदृढीकरणार्थं निरन्तरं महत्त्वपूर्णानि पादानि क्षिपति। अमेठीजनपदे तिलोईतहसीलायां स्थितं स्वशासी राज्यचिकित्सामहाविद्यालयं अस्य दिशायां एका महत्त्वपूर्णा उपलब्धिः अस्ति। प्रायः त्रिशतकोटिरूप्यकव्ययेन अस्य महाविद्यालयस्य निर्माणकार्यं प्रायः सम्पूर्णं जातम् अस्ति।
वर्तमानकाले महाविद्यालयेन सम्बद्धे द्विशतशय्यायुक्ते चिकित्सालये सेवाः सञ्चाल्यन्ते। एकत्रिंशत् जनवरीदिनाङ्कपर्यन्तं त्रिशतशय्यायुक्तं नूतनं चिकित्सालयं तथा पञ्चाशतशय्यायुक्तः क्रिटिकल केयर ब्लॉकः अपि हस्तान्तरीकरणाय सिद्धो भविष्यति। अनेन समग्रशय्यानां संख्या पञ्चपञ्चाशतं भविष्यति, येन क्षेत्रे स्वास्थ्यसुविधानां विस्तारः भविष्यति। तेनैव काले नर्सिंग महाविद्यालयस्य निर्माणकार्यं अपि सम्पूर्णं भविष्यति इति अपेक्षा अस्ति।
योगीसरकारस्य एषा पहल अमेठीजनपदस्य समीपवर्तिनां च जनपदानां जनानां कृते वरदानरूपेण सिद्धा भवति। क्षेत्रवासिनां दीर्घकालं यावत् विद्यमानं चिकित्सामहाविद्यालयस्य स्वप्नं अद्य साकारं भवति। सन् द्विसहस्रषड्विंशतितमवर्षपर्यन्तं एतत् संस्थानं पूर्णरूपेण पञ्चशताधिकशय्यायुक्तं आधुनिकं चिकित्साकेन्द्रं रूपेण प्रतिष्ठापितं भविष्यति।
महाविद्यालये शैक्षणिकसुविधानां अपि तीव्रगत्या विस्तारः भवति। एमबीबीएस पाठ्यक्रमे शतं स्थानानि स्वीकृतानि सन्ति। पैरामेडिकल क्षेत्रे एकादश डिप्लोमा पाठ्यक्रमाः सञ्चाल्यन्ते, येषु समग्रतया द्विशतत्रिंशत् स्थानानि सन्ति। तेषु एनेस्थीसिया एवं क्रिटिकल केयर टेक्नीशियन, रक्तसंक्रमण, आपत्कालीन एवं ट्रॉमा केयर, प्रयोगशालाटेक्नीशियन, ऑपरेशन थियेटर टेक्नीशियन, एक्सरे टेक्नीशियन इत्यादयः महत्त्वपूर्णाः पाठ्यक्रमाः अन्तर्भवन्ति।
आगामिसत्रात् द्विसहस्रषड्विंशति सप्तवर्षे बीएससी नर्सिंग पाठ्यक्रमे षष्टिः स्थानानि आरम्भयितुं तयारी क्रियते। स्नातकोत्तरस्तरे डीएनबी पाठ्यक्रमेषु प्रसूतिस्त्रीरोगविभागे, बालरोगविभागे, एनेस्थीसियाविभागे डिप्लोमा पाठ्यक्रमाः तथा मेडिसिन विभागे डिग्री पाठ्यक्रमः स्वीकृतः अस्ति। केषाञ्चन अन्येषां पाठ्यक्रमाणां निरीक्षणं सम्पूर्णं जातम् अस्ति तथा परिणामस्य प्रतीक्षा क्रियते।
महाविद्यालयेन सम्बद्धे चिकित्सालये ओपीडी तथा अन्तःरोगीसेवाः नियमितरूपेण सञ्चाल्यन्ते। मेडिसिन, शल्यचिकित्सा, स्त्रीरोग, बालरोग, अस्थिरोग, कर्णनासागलरोग, चर्मरोग इत्यादिषु विभागेषु प्रतिदिनं सहस्राधिकानां रोगिणां चिकित्सा भवति। आपत्कालीनसेवाः वर्तमानकाले दशशय्याभिः सञ्चाल्यन्ते, याः नूतनचिकित्सालयस्य आरम्भे त्रिंशच्छय्यापर्यन्तं वर्धिष्यन्ते। चिकित्सालये सप्त मेजर ऑपरेशन थियेटराणि, पञ्च माइनर ऑपरेशन थियेटराणि, विंशतिशय्यायुक्तः आईसीयू तथा एनआईसीयू सुविधाः उपलब्धाः सन्ति। चतुर्विंशतिघण्टासु डायग्नोस्टिक सेवाः यथा सीटी स्कैन, एक्सरे, अल्ट्रासाउंड, पैथोलॉजी प्रयोगशाला, रक्तसंग्रहण, फार्मेसी, ईकोकार्डियोग्राफी तथा ईसीजी अपि रोगिभ्यः प्रदीयन्ते।
महाविद्यालयस्य प्राचार्या डॉ रीना शर्मा अवदत् यत् सरकारस्य मंशानुसारं न केवलं योजनाः कार्यान्विताः भवन्ति, अपि तु स्वास्थ्यसेवाः अपि वर्ध्यन्ते। निर्माणकार्यस्य दायित्वं लोकनिर्माणविभागेन वह्यते। अस्माकं आशा अस्ति यत् नववर्षे नवकिरणैः सह चिकित्सकीयसुविधानां विस्तारः भविष्यति।
लोकनिर्माणविभागस्य सीडी द्वितीयस्य अधिशासी अभियन्ता उमेशचन्द्रः अवदत् यत् चिकित्सामहाविद्यालयस्य भवनं इदानीं जी प्लस षट् तलपर्यन्तं पूर्णं जातम् अस्ति। सम्प्रति केवलं फिनिशिंग कार्यं प्रचलति। तदतिरिक्तं महाविद्यालये निदेशककक्षः, नर्सिंग विभागः, छात्रावासाः इत्यादीनां कार्याणि अपि प्रचलन्ति, यानि सिडको संस्थया कारयन्ते। समग्रतया एषः परियोजना प्रायः त्रिशतकोटिरूप्यकपरिमाणः अस्ति।
---------------
हिन्दुस्थान समाचार