सर्वदलीयोपवेशने विधानसभाध्यक्षः सर्वान्निवेदितवान् नेतॄन् सदनं चालयितुं सहयोगगतमाह्वानम्
सदनस्य कार्यवाह्याः निर्बाध संचालन हेतवे सर्वदलानां सहयोगस्य आश्वासनम् लखनऊ, 18 दिसंबरमासः (हि.स.)। उत्तरप्रदेश विधानसभाध्यक्षः सतीश महाना गुरुवासरे अत्र विधानभवने आहूतायां सर्वदलीयायां गोष्ठ्यां विधानसभायाः शीतकालीनसत्रस्य सुचारु संचालनार्थं स
सर्वदलीय बैठक में सीएम योगी व अन्य नेता


सदनस्य कार्यवाह्याः निर्बाध संचालन हेतवे सर्वदलानां सहयोगस्य आश्वासनम्

लखनऊ, 18 दिसंबरमासः (हि.स.)।

उत्तरप्रदेश विधानसभाध्यक्षः सतीश महाना गुरुवासरे अत्र विधानभवने आहूतायां सर्वदलीयायां गोष्ठ्यां विधानसभायाः शीतकालीनसत्रस्य सुचारु संचालनार्थं सर्वेभ्यः दलैः सहयोगं दातुं विनयेन अनुरोधं कृतवान्। सः अवदत् यत् सर्वेषां सहयोगेन एव सदनं प्रवर्तते। विधानसभायाः विगतसत्रे अनेकेषु महत्त्वपूर्णेषु विषयेषु सकारात्मकाः चर्चाः परिचर्चाश्च अभवन्। सर्वदलीयसहयोगेन जनोपयोगिषु विषयेषु तार्किकया तथ्यपरकया गुणवत्तापूर्णया च चर्चया जनसमस्यानां सार्थकः समाधानः कर्तुं शक्यते।

अस्मिन् अवसरे मुख्यमन्त्री तथा नेता सदन योगी आदित्यनाथः अवदत् यत् सदनं जनाकाङ्क्षाणां प्रस्तुतीकरणस्य महत्त्वपूर्णं माध्यमम् अस्ति। वर्तमानसत्रे अस्माकं महत्त्वपूर्णैः विषयैः सह विधेयकेषु सार्थकचर्चायाः अवसरः लभ्यते। विधेयकेषु चर्चाकाले तेषां वास्तविकस्वरूपस्य सदने प्रस्तुतीकरणं आवश्यकम् अस्ति। उत्तरप्रदेश विधानसभायां सम्पन्नाः समृद्धाः चर्चाः देशव्यापिनां विधानसभानां कृते प्रेरणास्वरूपाः अभवन्। सः सर्वान् आश्वासितवान् यत् सरकारः सर्वासु चर्चासु सहभागं करिष्यति, विपक्षस्य प्रत्येकस्य प्रश्नस्य सकारात्मकं उत्तरं दास्यति तथा सूचनानुसारं समाधानं अन्वेष्टुं प्रयत्नं करिष्यति।

मुख्यमन्त्री अवदत् यत् उत्तरप्रदेश विधानसभायाः गतसत्रे विकसित उत्तरप्रदेश विजन डॉक्यूमेन्ट २०४७ विषये निरन्तरं सप्तविंशतिघण्टापर्यन्तं सार्थका चर्चा कृता। एतादृशं कर्तुं समर्थः उत्तरप्रदेशः एकमेव राज्यः अस्ति। विकसित उत्तरप्रदेश विषयये सम्पूर्णप्रदेशात् अद्यावधि अष्टनवतिलक्षाधिकाः सुझावाः प्राप्ताः सन्ति। आईआईटी कानपुर संस्थया सह मिलित्वा यूपी विजन डॉक्यूमेन्ट निर्मीयते। एषा चर्चा पुस्तकस्वरूपेण अपि प्रकाश्यते।

मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदीस्य प्रेरणया २६ दिसम्बर दिनं वीर बाल दिवस रूपेण आचर्यते। अस्यां तिथौ गुरु गोबिन्द सिंह महाराजस्य द्वौ साहिबजादौ बाबा जोरावर सिंह तथा बाबा फतेह सिंह वजीर खानस्य आदेशेन भित्तिषु जीवितावस्थायां चुनवितौ आस्ताम्। गुरु गोबिन्द सिंह महाराजस्य चत्वारः साहिबजादाः स्वशहादत्या देशस्य धर्मस्य च रक्षायाः दृढां आधारशिलां स्थापितवन्तः। एषः दिवसः देशस्य धर्मस्य च स्मरणाय समर्पितः अस्ति।

मुख्यमन्त्री अवदत् यत् भारत निर्वाचन आयोगेन मतदातृसूच्याः विसङ्गतीनां निवारणार्थं एसआईआर इति विराटः अभियानः आरब्धः अस्ति। सर्वे जनप्रतिनिधयः अस्मिन् कार्ये सहयोगं कुर्वन्ति। एसआईआर माध्यमेन मतदातृसूच्याः पुनरीक्षणं कृत्वा वास्तविकमतदातॄणां नामानि समावेशयितुं लोकतन्त्रस्य सुदृढीकरणे सहायकं भवति।

संसदीयकार्य मन्त्री सुरेश कुमार खन्ना अवदत् यत् मुख्यमन्त्रिणः नेतृत्वे प्रदेशः प्रत्येकस्मिन् क्षेत्रे अभूतपूर्वां प्रगतिं कृतवान्। पक्षविपक्षयोः सहयोगेन एव सदनं सुचारुरूपेण सञ्चालयितुं शक्यते। प्रदेशसरकारः संवेदनशीला अस्ति। सदनसदस्यैः उक्तासु विषयेषु सरकारेण संज्ञानं गृहीतम् अस्ति।

बैठके नेता प्रतिपक्ष माता प्रसाद पाण्डेय, अपना दल सोनेलाल पक्षात् राम निवास वर्मा, राष्ट्रीय लोकदलात् राजपाल सिंह बालियान, सुहेलदेव भारतीय समाज पार्टीत् ओम प्रकाश राजभर, निर्बल इण्डियन शोषित हमारा आम दलात् रमेश सिंह, भारतीय राष्ट्रीय कांग्रेसत् आराधना मिश्रा मोना, जनसत्ता दल लोकतांत्रिकात् विनोद सरोज तथा बहुजन समाज पार्टीत् उमाशंकर सिंह च स्वस्वदलानां तर्फेण सदनकार्यवाहीस्य निर्बाधसञ्चालनार्थं पूर्णं सहयोगं दास्यन्तीति आश्वासनं दत्तवन्तः।

अस्मिन् अवसरे मत्स्यमन्त्री डॉ संजय कुमार निषाद अपि उपस्थितः आसीत्।

---------------

हिन्दुस्थान समाचार