Enter your Email Address to subscribe to our newsletters

—पंचांग ज्ञात - अज्ञात स्वतंत्रता सेनानिभ्यः समर्पितः
वाराणसी,18 दिसंबरमासः (हि.स.)।
उत्तरप्रदेशराज्यस्य वाराणस्यां नगरे क्रान्तिकारी पञ्चाङ्गस्य २०२६ वर्षस्य लोकार्पणं शुक्रवारदिने (१९ दिसम्बरदिनाङ्के) अपराह्ने द्विवादनसमये जगतगञ्जकोठ्याम् भविष्यति। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण इन्दिरा गांधी राष्ट्रिय कला केन्द्रस्य (आईजीएनसीए) न्यासस्य अध्यक्षः पद्मभूषण रामबहादुर रायः सहभागी भविष्यति। अस्य समारोहस्य अध्यक्षतां इण्डो श्रीलङ्का अन्ताराष्ट्रिय बौद्धिस्ट् असोसिएशनस्य अध्यक्षः तथा महाबोधि सोसाइटी ऑफ् इण्डियायाः पूर्वसचिवः डा० के सिरी सुमेध थेरो करिष्यति। विशिष्टातिथिरूपेण राज्य मन्त्री (स्वतन्त्रप्रभारः) रविन्द्र जायसवालः तथा इतिहासकारः डा० हामिद आफाक कुरैशी च उपस्थिताः भविष्यन्ति।
एतां सूचनां संस्थायाः संरक्षकः प्रदीप नारायण सिंहः दत्तवान्। सः अवदत् यत् राष्ट्रनिर्माणे तथा स्वातन्त्र्यइतिहासे अनुसन्धानं कुर्वन्त्या मातृभूमि सेवा संस्थया अयं क्रान्तिकारी पञ्चाङ्गः प्रकाशितः अस्ति। अयं पञ्चाङ्गः ज्ञात अज्ञातेषु च स्वातन्त्र्यसेनानिषु समर्पितः अस्ति।
अपि च अवगतं कृतं यत् एषा संस्था गतषट्सु वर्षेषु निरन्तरं तेषां स्वातन्त्र्यसंग्रामसेनानां अनकथितगाथानां इतिहासं जगतः समक्षं आनयितुं प्रयत्नशीला अस्ति ये इतिहासग्रन्थानां पृष्ठेभ्यः विलुप्ताः सन्ति। एते स्वातन्त्र्यसेनानाः भारतीयस्वातन्त्र्यआन्दोलनस्य सत्यं प्रकाशयिष्यन्ति, येन आगामिन्यःसंततयः स्वस्य गौरवशालिनः गाथाभ्यः प्रेरणां लप्स्यन्ते। स्वातन्त्र्यसेनानां गौरवगाथाभ्यः राष्ट्रे प्रति अनुरागः वर्धिष्यते।
सः अपि अवदत् यत् इतिहासस्य पृष्ठेभ्यः विलुप्तानां महानां स्वातन्त्र्यसेनानां अन्वेषणकार्यं निरन्तरं प्रवर्तते।
---------------
हिन्दुस्थान समाचार