Enter your Email Address to subscribe to our newsletters

इंफालम्, 19 दिसंबरमासः (हि.स.)।
सुरक्षाबलैः नशाविरोधी-अभियानस्य अन्तर्गतं गुरुवासरे एलएम-ब्लॉक, याओलेन-चेपु तथा लामलाई-चिङ्फेई इति क्षेत्रेषु विस्तीर्णायां समष्टितः एकोनविंशत्यधिकशत-एकड-परिमितायां भूमौ अवैधरूपेण क्रियमाणां अफीम-कृषिं विनष्टा।
पुलिस-प्रवक्त्रा अद्य अवेदि यत् अभियाने कृषिस्थलेषु निर्मिताः चतुर्विंशतिः झोपडाः अपि दग्धाः। एषा कार्यवाही अवैध-अफीम-कृषेः मादक-द्रव्य-तस्करी-जालस्य च समूलोच्छेदनस्य उद्देश्येन कृता।
हिन्दुस्थान समाचार