Enter your Email Address to subscribe to our newsletters

भाेपालम्, 19 दिसंबरमासः (हि.स.)।
देशस्य महान् स्वातन्त्र्यसेनानी, काकोरीकाण्डस्य महानायकाः, महाक्रान्तिकारिणः रामप्रसादः बिस्मिलः, अशफाकउल्ला खाँ, रोशनसिंहः च — एषाम् अद्य शुक्रवासरे बलिदानदिवसः आचर्यते। अद्यैव दिने, १९ दिसम्बर् १९२७ तमे वर्षे, एते त्रयः महानायकाः फाँसीदण्डेन प्राणान् उत्सृष्टवन्तः। अत एव अद्य दिनं बलिदानदिवसः इति रूपेण आचर्यते।
अस्य अवसरस्य उपलक्ष्ये मध्यप्रदेशस्य मुख्यमन्त्री डा मोहन यादवः त्रयाणां महान् सेनानां स्मरणं कृत्वा विनम्रां श्रद्धाञ्जलिं अर्पितवान्।
मुख्यमन्त्री डा यादवः सामाजिकमाध्यमे एक्स इत्यस्मिन् लेखनं कृत्वा अवदत् —
“अमरहुतात्मा रामप्रसादः बिस्मिलः, अशफाकउल्ला खाँ, रोशनसिंहः च, एतेषां बलिदानदिवसे अहं विनम्रां श्रद्धाञ्जलिं अर्पयामि। मातृभूमेः स्वातन्त्र्याय अटलसंकल्पेन सर्वस्वं न्यौछावर्य अमरशहीदैः सम्पूर्णं राष्ट्रं जागरितं कृतम्। तेषां ऋणात् राष्ट्रं कदापि ऋणान्मुक्तं न भवितुं शक्नोति।”
---------------
हिन्दुस्थान समाचार