महान् शिल्पकारः रामसुतारः इति ख्यातः कलाकारः दिवंगतः — शान्ताकुमारः शोकं व्यक्तवान्।
शिमला, 19 दिसंबरमासः (हि.स.)। पूर्वमुख्यमन्त्री तथा पूर्वकेन्द्रीयमन्त्री शान्ताकुमारः भारतस्य महतश्शिल्पकारस्य, गुजरातप्रदेशे सरदारवल्लभभाईपटेलस्य विश्वस्य सर्वोच्चा १८२ मीटरपरिमिता स्टैच्यू ऑफ यूनिटी इति प्रतिमायाः निर्मातुः, पद्मविभूषणसमलङ्
शांता कुमार


शिमला, 19 दिसंबरमासः (हि.स.)। पूर्वमुख्यमन्त्री तथा पूर्वकेन्द्रीयमन्त्री शान्ताकुमारः भारतस्य महतश्शिल्पकारस्य, गुजरातप्रदेशे सरदारवल्लभभाईपटेलस्य विश्वस्य सर्वोच्चा १८२ मीटरपरिमिता स्टैच्यू ऑफ यूनिटी इति प्रतिमायाः निर्मातुः, पद्मविभूषणसमलङ्कृतस्य रामसुतारस्य निधनविषये गहनं शोकं व्यक्तवान्। सः विवेकानन्द-ट्रस्टस्य तर्फतः दिवङ्गताय महाशिल्पकाराय हार्दिकां श्रद्धाञ्जलिं समर्पितवान्। शान्ताकुमारः अवदत् यत्—यदा विवेकानन्द-न्यासस्य मुख्यद्वारे स्वामिविवेकानन्दस्य प्रतिमास्थापनस्य निर्णयः कृतः, तदैव तत्कालीनमुख्यमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे सरदारपटेलस्य विशालप्रतिमायाः निर्माणकार्यं प्रवर्तमानम् आसीत्। तस्मात् एव एतत् निश्चीयत यत् स्वामिविवेकानन्दस्य प्रतिमापि तेनैव महाशिल्पिना रामसुतारेण निर्मापयितव्या।

सः अवेदयत् यत् अस्मिन् विषये तस्य रामसुतारेण सह दिल्लीनगर्यां द्विवारं साक्षात्कारः अभवत्। प्रतिमायाः प्रारूपे सिद्धे सति तं पुनः देहल्याम् आहूय प्रतिमां दर्शितवान्, तदनन्तरं स्वामिविवेकानन्दस्य भव्यप्रतिमायाः निर्माणं सम्पन्नम्, या अद्य पालमपुरस्थिते विवेकानन्द-न्यासस्य मुख्यद्वारे शोभते। शान्ताकुमारः विवेकानन्द-ट्रस्टस्य चतुर्णां संस्थानां—विवेकानन्द-चिकित्सालयः, सौरभकालिया-नर्सिङ्-महाविद्यालयः, कायाकल्पः तथा विश्रान्तिः—तासां सर्वासां तर्फतः महाशिल्पकारस्य रामसुतारस्य स्वर्गवासे भावपूर्णां श्रद्धाञ्जलिं समर्प्य अवदत् यत् भारतीयकलासंस्कृत्योः क्षेत्रे तस्य योगदानं सदा स्मरणीयं भविष्यति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani