जनता जानाति, के सन्ति माफियापालकाः : योगी आदित्यनाथः
-मुख्यमंत्री ने किया 137.83 करोड़ रुपये की लागत से बने गोरखनाथ ओवरब्रिज का लोकार्पण
*प्रदेश की पहचान पर बदनुमा दाग लगाया था माफिया पालने वालों ने : सीएम योगी*


-मुख्यमंत्री अकरोत् 137.83 कोटिरुप्यकाणां व्ययेन जातं गोरखनाथस्य ओवरब्रिजलोकार्पणम्

गोरखपुरम्, 19 दिसंबरमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथः पूर्ववर्ती समाजवादीपार्टीसरकारं तस्य मुख्यमन्त्रिणं च नामानुल्लेखेन विना माफियाभिः सह सम्बन्धविषये तीव्रं शाब्दिकं प्रहारं कृतवान्। मुख्यमन्त्री अवदत् यत् प्रदेशस्य परिचयाय संकटं उत्पादयन्तं माफियां पालयन्तः के जनाः सन्ति, इदं जनतया भलीभान्ति ज्ञायते। अद्य आरोपप्रत्यारोपं कुर्वन्तः एव जनाः माफियाभिः सह चित्रेषु दूरदर्शने दृश्यन्ते। ते माफियातः उपहारान् गृह्णन्तः अपि दृश्यन्ते। एते एव जनाः आसन् ये प्रदेशस्य परिचयाय कलङ्कं दत्तवन्तः। ते प्रत्येकस्मिन् जनपदे माफियां पोषयित्वा प्रदेशे वन डिस्ट्रिक्ट, वन माफिया इति स्थितिं निर्मितवन्तः।

मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे सायङ्काले १३७.८३० कोटिरूप्यकव्ययेन निर्मितस्य गोरखनाथ-ओवरब्रिजस्य लोकार्पणानन्तरं अत्र उपस्थितं जनसमूहं सम्बोधितवान्। मुख्यमन्त्री भाजपाया द्वि-इञ्जिन-सरकारे विरासत्, विकासः जनकल्याणकार्याणि च विस्तरेण उल्लिख्य पूर्ववर्तिनीं सरकारं विकासस्य स्थाने माफियावर्धनाय कठोरतया आलोचितवान्।

मुख्यमन्त्री अवदत् यत् पूर्ववर्तिन्या सर्वकारस्य नीयतिः दूषिता आसीत्। तस्यां सरकारे उपविष्टाः जनाः विकासार्थं प्राप्तं धनं स्वार्थेन विभज्य नष्टवन्तः। परिवारस्य कोषं पूरयितुं प्रदेशस्य कोषं शून्यं कृतवन्तः। सः अवदत् यत् ये जनाः केवलं परिवारपर्यन्तं सीमिताः सन्ति, तैः विकासस्य अपेक्षा कर्तुं न शक्यते। २०१७ वर्षात् पूर्वं उत्तरप्रदेशे एतदेव आसीत्।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् यदा नीयतिः शुद्धा भवति तदा नियन्तारः अपि सहकार्यं कुर्वन्ति। सकारात्मकचिन्तनस्य दृढेच्छाशक्तेः च फलस्वरूपमेव अद्य उत्तरप्रदेशः बीमारुराज्यः न, अपि तु रेवेन्यू सरप्लस स्टेट अभवत्।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अष्टवर्षपूर्वं गोरखपुरस्य या परिचयः आसीत्, तत् कस्यापि गोचरात् न आसीत्। रोगाः, अशुचिता, अराजकता, माफियागिरी, विद्युताभावेन पीडिताः जनाः, मूलभूतसुविधानामभावः — एतदेव गोरखपुरस्य परिचयः आसीत्। गोरखपुरस्य उत्तरप्रदेशस्य च नाम्ना बाह्यजनाः हीनदृष्ट्या पश्यन्ति स्म। अत्र नागरिकानां सम्मुखे परिचयसंकटं आसीत्।

पूर्ववर्तिनीषु सरकारासु बन्दं खादकारखानं अद्य सञ्चालितं वर्तते। रात्रौ अत्र दीप्तमानाः प्रकाशाः नूतनभारतस्य नूतनउत्तरप्रदेशस्य नूतनगोरखपुरस्य दर्शनं कुर्वन्ति। गोरखपुरविमानपत्तनात् अग्रे गच्छतः एम्स् संस्थानं स्वागतं करोति। गोरखपुरस्य यत् बीआरडी चिकित्सामहाविद्यालयं सपा सरकारा विक्रयितुं प्रयत्नं कृतवती, तत् अद्य अत्याधुनिकसुविधाभिः सह उपचारस्य नूतनकेन्द्रं जातम्।

सः अवदत् यत् यस्य रामगढ़तालस्य विषये सांसद् रविकिशनस्य ट्वीट् प्रति सपा पक्षेण अशिष्टा टिप्पणी कृता आसीत्, तत् अद्य पर्यटनस्य श्रेष्ठं केन्द्रं जातम्। सपा सरकारकाले तु रामगढ़तालं अपराधस्य केन्द्रं आसीत्, अशुचिता च तत्र आसीत्।

मुख्यमन्त्री अवदत् यत् यत्र पूर्ववर्तिनीसरकारे वन डिस्ट्रिक्ट वन माफिया प्रभावी आसीत्, तत्र द्वि-इञ्जिन-सरकारा वन डिस्ट्रिक्ट वन मेडिकल कॉलेज प्रदत्तम्। पूर्वीउत्तरप्रदेशे पूर्वं केवलं गोरखपुरस्य बीआरडी मेडिकल कॉलेज् आसीत्, अद्य तु कुशीनगर, देवरिया, महाराजगञ्ज, सिद्धार्थनगर, बस्ती, बलरामपुर, बहराइच, गोंडा, अम्बेडकरनगर, सुल्तानपुर, प्रतापगढ़, आजमगढ़, गाजीपुर, अमेठी, मिर्जापुर, सोनभद्र, चन्दौली इत्यादिषु जनपदेषु मेडिकल कॉलेजाः सन्ति। बलियायामपि सरकारा मेडिकल कॉलेज् दातुं गच्छति।

स्वसम्बोधनकाले मुख्यमन्त्री योगी आदित्यनाथः अभिभावकवत् जनान् शिक्षां अपि दत्तवान्। सः अवदत् यत् घोरशीतलहरः प्रवहति, अतः शीतात् आत्मानं रक्षत। सरकारा सार्वजनिकस्थलेषु अलावप्रज्वलनं सहायजनानां कंबलवितरणं रैनबसेरव्यवस्थां च कृतवती इति सः अवदत्। घोरशीतलहरे अनावश्यकयात्रां परित्यजत, ऊनीवस्त्राणि धारयत। कस्यचित् समस्यायाः सति स्वजनप्रतिनिधिं सूचयत। तथापि यदि शीतपीडा भवति तर्हि चिकित्सकीयपरामर्शे विलम्बं मा कुरुत।

अद्य आगमननिर्गमनार्थं पृथक् पृथक् ओवरब्रिजप्रणाली उपलब्धा जाता अस्ति। गोरखनाथस्य नूतनस्य ओवरब्रिज- आरम्भेण गोरखनाथमन्दिरमार्गे आगच्छन्तः गच्छन्तश्च पन्थानः महान् सौकर्यं लप्स्यन्ते। धर्मशाला–गोरखनाथमन्दिरमार्गे लखनऊ–गोरखपुररेलमार्गस्य डोमिनगढ् गोरखपुरजङ्क्शनयोः मध्ये क्रॉसिंग् संख्या १६२ए स्थले पूर्वमेव एकः ओवरब्रिज आसीत्। तस्य समांतरं अन्यस्य ओवरब्रिजस्य निर्माणेन यात्रिकाणां आगमननिर्गमनाय पृथक् ओवरब्रिज-उपयोगस्य सुविधा प्राप्ता अस्ति।

अस्य ओवरब्रिज इत्यस्य उभयपार्श्वयोः व्यू-कटर् अपि स्थापितः अस्ति। अनेन ओवरब्रिजसमीपस्थगृहाणां निजता संरक्षिता भविष्यति तथा वाहनानां शब्दः न्यूनतमः श्रूयते।

---------------

हिन्दुस्थान समाचार