Enter your Email Address to subscribe to our newsletters

लखनऊ, 19 दिसंबरमासः (हि. स.)।
उत्तरप्रदेशविधानमण्डलस्य सत्रं शुक्रवासरे आरब्धम्। उभयोः सदनोः—विधानसभायाः विधानपरिषदश्च—कार्यवाही प्रातः एकादशवादने आरब्धा। वन्दे मातरम् इति गीतगायनेन विधानसभायाः कार्यवाही प्रारभ्य नेता सदनः मुख्यमंत्री योगी आदित्यनाथः सदने विधायकस्य सुधाकरसिंहस्य निधनविषये शोकप्रस्तावं प्रस्तुतवान्। सर्वदलीयनायकैः शोकः प्रकटितः, ततः सदनस्य कार्यवाही द्वाविंशतितमे दिसम्बरमासे सोमवासरे प्रातः एकादशवादनपर्यन्तं स्थगिता अभवत्।
मुख्यमंत्री योगी आदित्यनाथः सदने अवदत् यत् सुधाकरसिंहः मऊजनपदात् तृतीयवारं निर्वाचितः सन् विधानसभां प्राप्तवान् आसीत्। सः लोकतन्त्रसेनानी अपि आसीत्। समाजसेवायां तस्य महत्वपूर्णं योगदानम् आसीत्। तस्य अकालमरणं समाजस्य कृते अपूरणीयक्षतिः अस्ति।
नेतृविपक्षः माता प्रसादः पाण्डेयः अवदत् यत् सः युवावस्थात् एव संघर्षशीलः आसीत्। सः सदैव समाजसेवायां संलग्नः आसीत्। एतेन कारणेन तृतीयवारं निर्वाचनं विजित्य यदा आगतः तदा सा विजयः अतिमहती आसीत्। सः अस्माकं दलस्य नेता आसीत्। तस्य निधनात् अस्माकं दलस्य क्षतिः जाता। वयं सर्वे तस्य परिवारस्य प्रति गहनां शोकसंवेदनां प्रकटयामः।
काङ्ग्रेसदलस्य नेतृ आराधना मिश्रा मोना, निषाददलस्य डॉ. सञ्जयः निषादः, बहुजनसमाजपार्टीदलस्य नेता उमाशंकरः सिंहः तथा अन्येषां दलानां नेतारः अपि दिवंगतं विधायकं सुधाकरसिंहं स्मृत्वा श्रद्धाञ्जलिं अर्पितवन्तः।
--------------
हिन्दुस्थान समाचार