Enter your Email Address to subscribe to our newsletters

लखनऊ, 19 दिसंबरमासः (हि. स.)।
उत्तरप्रदेशविधानमण्डलस्य शीतकालीनसत्रस्य आरम्भात् पूर्वं शुक्रवासरे पूर्वाह्ने समाजवादीपार्टीस्य विधायकाः कोडिनकफसिरपप्रकरणे सरकारस्य विरोधं कुर्वन्तः दृश्यन्ते स्म। केचन सपा विधायकाः सर्वकारविरोधार्थं फलकधारणेन आगताः, अन्ये च साइकिलयानैः विधानमण्डलं प्राप्तवन्तः।
प्रतिबन्धितकोडिनकफसिरपतस्करीप्रकरणे समाजवादीपार्टीस्य विधायकस्य मुकेशवर्मणः अनन्तरं विधायकः बृजेशयादवः अपि कोडिनतस्करीआरोपितेषु कारवाईं कर्तुम् इति माग्र्हयन् पोस्टरं धारयित्वा आगतवान्।
वाराणसीतः समाजवादीपार्टीस्य विधानपरिषद्सदस्यः आशुतोषः सिन्हा साइकिलयानं आरुह्य कफसिरपशीशीप्रतिरूपस्य कटआउटं धारयित्वा विधानसभां प्राप्तवान्। आशुतोषः सिंहः आरोपं कृतवान् यत् अस्मिन् प्रकरणे महान्तः जनाः संलग्नाः सन्ति। पूर्वं कालीनभैयाः श्रूयन्ते स्म, इदानीं तु कोडिनभैयाः आगताः इति सः अवदत्। सः पुनरपि आरोपं कृतवान् यत् सरकार तेषु विरुद्धं कारवाईं न करोति, बुलडोजरस्य दर्शनं न भवति इति।
---------------
हिन्दुस्थान समाचार