राज्य महिला आयोगे राज्य ग्रामीण आजीविका मिशनसंबद्ध योजनानां विषये कार्यशाला आयोजिता
लखनऊ, 19 दिसंबरमासः (हि.स.)। उत्तरप्रदेशराज्यमहिलाआयोगे राज्यग्रामीणआजीविकामिशनस्य विविधकल्याणकारीयोजनाविषयकः एकः कार्यशाला शुक्रवासरे आयोजितः अभवत्। कार्यशालायाः शुभारम्भः उत्तरप्रदेशराज्यमहिलाआयोगस्य अध्यक्षा डॉ० बबीतासिंहचौहानया तथा संयुक्तमिशनन
दीप जलाती राज्य महिला आयोग की अध्यक्ष बबिता चौहान


लखनऊ, 19 दिसंबरमासः (हि.स.)। उत्तरप्रदेशराज्यमहिलाआयोगे राज्यग्रामीणआजीविकामिशनस्य विविधकल्याणकारीयोजनाविषयकः एकः कार्यशाला शुक्रवासरे आयोजितः अभवत्। कार्यशालायाः शुभारम्भः उत्तरप्रदेशराज्यमहिलाआयोगस्य अध्यक्षा डॉ० बबीतासिंहचौहानया तथा संयुक्तमिशननिदेशकः जनमेजयशुक्लमहोदयेन दीपप्रज्वलनं कृत्वा कृतः।

जागरूकताकार्यक्रमे संयुक्तमिशननिदेशकः जनमेजयशुक्लः प्राकृतिककृषेः, नमो ड्रोन दीदी योजनायाः, इंटीग्रेटेड फार्मिंग क्लस्टर्, मधुमक्षिकापालनम्, अजापालनम्, कुक्कुटपालनम् इत्यादीनां योजनानां विषये सम्पूर्णां सूचनां प्रदत्तवान्। पदाधिकारिभिः प्रदेशस्य विभिन्नेषु जनपदेषु आगामिजनसुनवायी-जागरूकताचौपालकार्यक्रमेषु महिलानां बालिकानां च उपर्युक्तविविधयोजनानां अधिकतमलाभप्रदानस्य विषये विशेषेण बलं दत्तम्।

कार्यक्रमस्य द्वितीयसत्रे उत्तरप्रदेशराज्यमहिलाआयोगस्य पदाधिकारिणां मासिकसमीक्षाबैठकः आयोजितः अभवत्। अस्यां बैठके आयोगेन विगतमासे आयोजितेषु विविधकार्यक्रमेषु विचारविमर्शः कृतः तथा आयोगद्वारा आयोजितकार्यक्रमैः प्रदेशस्य महिलाभ्यः प्रभावीः शीघ्रलाभः कथं प्रदेयः, अस्मिन् विषये विशेषः बलः दत्तः।

कार्यक्रमे उत्तरप्रदेशराज्यमहिलाआयोगस्य सदस्यगणाः हिमानी अग्रवाल, सुनीता श्रीवास्तवा, अनीता गुप्ता, अनुपमा सिंह लोधी, सुजीता कुमारी, मीना कुमारी, नीलम प्रभात, गीता बिन्द, गीता विश्वकर्मा, पुष्पा पाण्डेय, डॉ० प्रियंका मौर्य, ऋतु शाही, सुनीता सैनी, एकता सिंह, अर्चना पटेल, जनक नन्दिनी, प्रतिभा कुशवाहः, रेनू गौड़, संगीता जैन इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार