Enter your Email Address to subscribe to our newsletters

हल्द्वानी, 19 दिसंबरमासः (हि.स.)।
नगरनिगमेन नगरवासिनां स्वास्थ्यं दृष्ट्वा आरोग्यमन्दिरस्य आरम्भः कृतः। नगरनिगम-क्षेत्रे अद्य द्वयोः स्थानेषु आरोग्यमन्दिरयोः विधिवत् शुभारम्भं महापौरः गजराज बिष्टः तथा नगरायुक्तः परितोष वर्मा संयुक्तरूपेण कृतवन्तौ। आरोग्यमन्दिराणां मुख्योद्देश्यः नगरनिगम-क्षेत्रान्तर्गतानां निर्धनानां तथा आवश्यकताग्रस्तानां जनानां कृते उत्तमाः, सुलभाश्च स्वास्थ्यसेवाः उपलब्धाः करणे एव अस्ति।
अस्मिन् अवसरः महापौरः गजराज बिष्टः अवदत् यत् आगामिकाले हल्द्वानी नगरनिगम-क्षेत्रे आहत्य दश आरोग्यमन्दिराणि उद्घाटयिष्यन्ते, यत्र चिकित्सकैः तेषां दलैश्च निःशुल्कं उपचारं जनानां कृते प्रदास्यते। नगरायुक्तः परितोष वर्मा अपि अवदत् यत् प्राथमिक-स्वास्थ्य-सुविधानां सुदृढीकरणस्य दिशायां एषः महत्त्वपूर्णः उपक्रमः अस्ति, येन सामान्यजनानां समये एव उपचारः सुलभतया उपलब्धः भविष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani