भारतीय-प्रशासनिक-सेवायाः अधिकारीणः देशस्य निरन्तरं प्रगतये कार्यं कुर्वन्ति - मुख्यमंत्री डॉ. यादवः
- मुख्यमन्त्री मध्यप्रदेश-भारतीय-प्रशासनिक-सेवा-संघस्य सेवा-समागमं २०२५ सम्बोधितवान्। भोपालम्, 19 दिसम्बरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अवदत् यत् स्वामी विवेकानन्दस्य विचारः आसीत्— एकविंशतितमं शताब्दं भारतस्य भविष्यति इति
मुख्‍यमंत्री डॉ. मोहन ने मध्य प्रदेश आई.ए.एस. एसोसिएशन सर्विस मीट 2025 को किया संबोधित


- मुख्यमन्त्री मध्यप्रदेश-भारतीय-प्रशासनिक-सेवा-संघस्य सेवा-समागमं २०२५ सम्बोधितवान्।

भोपालम्, 19 दिसम्बरमासः (हि.स.)।मध्यप्रदेशस्य

मुख्यमन्त्री डॉ. मोहन यादवः अवदत् यत् स्वामी विवेकानन्दस्य विचारः आसीत्— एकविंशतितमं शताब्दं भारतस्य भविष्यति इति। प्रधानमन्त्री नरेन्द्रमोदीनां प्रभावी नेतृत्वे मार्गदर्शने च अद्य विवेकानन्दस्य एषः स्वप्नः साकारो भवतीव दृश्यते। अद्य वर्तमानकाले विश्वस्य प्रत्येकं राष्ट्रं भारतस्य सह मैत्रीं कर्तुम् इच्छति। प्रधानमन्त्री मोदीनां नेतृत्वे भारतं सम्प्रति प्रत्येकम् आह्वानं प्रत्येकं परिस्थितिं च सम्यक् रूपेण सामर्थ्येन समनुभवितुं सक्षमं जातम् अस्ति। भारतीय-प्रशासनिक-सेवा-अधिकारिणां भूमिकायाः आधारेण एव अद्य भारतं विश्वस्य समक्षं दृढतया स्थितम् अस्ति। अस्माकं प्रशासनिक अधिकारीणः प्रत्येकम् आह्वानं सम्यक् प्रकारेण सम्मुखीकुर्वन्तः देशस्य अग्रगमनाय निरन्तरं कार्यं कुर्वन्ति। भारतस्य बहुविध-विविधतासु सन्तिषु अपि अद्य देशे एषः सेवा-क्षेत्रः दृढतया प्रतिबद्धतया च स्वदायित्वानां निर्वहणं करोति।

मुख्यमन्त्री डॉ. यादवः शुक्रवासरे म.प्र. भारतीय-प्रशासनिक-सेवा-संघस्य (आई.ए.एस. एसोसिएशन) सेवा-समागमस्य २०२५ शुभारम्भ-अवसरे राजधानी-भोपाल-स्थिते प्रशासन-अकादम्यां आयोजितं कार्यक्रमं सम्बोधितवान्। मुख्यमन्त्री डॉ. यादवः कार्यक्रमस्य दीप-प्रज्वलनं कृत्वा शुभारम्भं कृतवान्। शुभारम्भ-अवसरे मुख्यसचिवः अनुराग जैनः, सेवानिवृत्त-अधिकारिणः, तथा मध्यप्रदेश-कैडरस्य भारतीय-प्रशासनिक-सेवा-अधिकारिणः बहुसंख्यया उपस्थिताः आसन्। अस्मिन् अवसरे मुख्यमन्त्री डॉ. यादवाय स्मृति-चिह्नमपि समर्पितम्।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् देशस्य स्वातन्त्र्यानन्तरं सरदार-वल्लभभाई-पटेलस्य प्रयत्नानां फलस्वरूपेण प्रशासनिक-व्यवस्था निर्मिता अभवत्। देशे राजानां सत्तायाः प्रजातन्त्रे परिवर्तनार्थं प्रशासनिक-अधिकारिणां महत्त्वपूर्णा भूमिका आसीत्। अस्माकं देशस्य संवैधानिक-व्यवस्थायां संघीय-प्रणाली अस्ति, तथा अस्मिन् परिप्रेक्ष्ये प्रदेशस्य अधिकारिणः केन्द्र-राज्ययोः सह समन्वयं कृत्वा राज्यस्य उत्तमां छविं निर्मितवन्तः। मध्यप्रदेशः प्रयोगशालायाः सदृशः अस्ति, यत्र नानाक्षेत्रेषु निरन्तरं नवाचाराः अभवन्, तथा तेषां मध्ये अनेके नवाचाराः देशे विदेशेषु च अनुसर्यन्ते। मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रधानमन्त्री मोदी योग्यता-अनुभवयोः महत्त्वं सम्यक् रूपेण अवगच्छन्ति। अस्य एव परिणामरूपेण सेवाकालानन्तरमपि अनेकेषां अधिकारिणां अनुभवस्य लाभः शासन-व्यवस्थायै प्राप्यते। प्रदेशस्य सर्वे प्रशासनिक-अधिकारी सम्मानस्य योग्याः सन्ति। एतत् हर्षस्य विषयः अस्ति यत् सर्वे अधिकारी एककुलस्य इव भावेन प्रत्येकां कठिनतां अतिक्रम्य मार्गं प्रशस्तं कुर्वन्ति।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रदेशे अनुभवेण परिपूर्णाः अस्माकं वरिष्ठ-अधिकारीणः तथा ऊर्जया परिपूर्णाः युवानः सहकारिणः विकसितस्य आत्मनिर्भरस्य च मध्यप्रदेशस्य आधाराः सन्ति। सः अवदत् यत् एषः कालः केवलं नीतिनिर्माणस्य योजनानां च क्रियान्वयनस्य एव न, अपि तु नवाचारस्य अवबोधनस्य, प्रौद्योगिक्याः स्वीकरणस्य तथा नागरिक-दृष्ट्या चिन्तनस्य अपि अस्ति। सेवां कर्तुं प्राप्यमानः अवसरः सौभाग्येन लभ्यते। भारतीय-प्रशासनिक-सेवा-अधिकारीणः एतत् सौभाग्यं स्वकठिन-परिश्रमेण अर्जितवन्तः। अस्माकं संस्कृतौ नर-सेवा नारायण-सेवायाः समाना मन्यते। सामान्यजनस्य कष्टानां निवारणं, तेषां समस्याणां श्रवणं, तथा सार्थक-समाधानस्य प्रदानं सर्वोच्च-प्राथमिकतया स्वीकरणीयम्। मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रदेशस्य विकासाय अस्माभिः शत-प्रतिशतं योगदानं दातव्यमिति संकल्पः कर्तव्यः।

मध्यप्रदेश-आई.ए.एस.-संघस्य अध्यक्षः अपर-मुख्य-सचिवः मनु श्रीवास्तवः अवदत् यत् सेवा-समागमे नूतन-उद्यमानां सफलतायाः विषये विमर्शः क्रियते। मध्यप्रदेशः सः राज्यः अस्ति यः सर्वान् आत्मसात् करोति। प्रदेशस्य आई.ए.एस.-अधिकारीणः मुख्यमन्त्री डॉ. यादवस्य नेतृत्वे प्रदेशस्य अग्रगमनाय निरन्तरं सेवां कुर्वन्ति। मध्यप्रदेश-आई.ए.एस.-संघः एकं कुटुम्बमिव अस्ति। आयोजन-समितेः अध्यक्षः पी. नरहरिः अवदत् यत् मुख्यमन्त्री डॉ. यादवस्य नेतृत्वे राज्ये सेवा-कार्यं पूर्ण-गरिमया सञ्चालितं भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता