Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 19 दिसंबरमासः (हि.स.)।
शुक्रवासरप्राते बिहारसर्वकारस्य क्रीडा-सूचनाप्रौद्योगिकीमन्त्री श्रेयसी सिंह भस्मारत्यां महाकालेश्वरस्य दर्शनं कृतवती। दर्शनानन्तरं सा अवदत् यत् सा बिहारराज्यस्य सम्पूर्णदेशस्य च समृद्धिं कामयते। सा उक्तवती— “बाबा महाकालस्य आह्वानं प्राप्तम्, अतः दर्शनं कृतवती। एतत् मम कृते अत्यन्तम् अद्भुतम् आसीत्।”
दर्शनानन्तरं महाकालेश्वरमन्दिरप्रबन्धसमितेः तर्फेण सहायकप्रशासकेन आशीषफलवाडिया इत्यनेन श्रेयसी सिंह सम्मानिता अभिनन्दिता च अभवत्।
---------------
हिन्दुस्थान समाचार