Enter your Email Address to subscribe to our newsletters

जम्मूः, 20 दिसंबरमासः (हि.स.)।
“चैम्पियनाः केवलं प्रशिक्षणेन न, अपि तु अन्तःस्थितैः स्वप्नैः दृढेन संकल्पेन च निर्मीयन्ते।” इति भावनया आर्मी पब्लिक स्कूल् दमाना द्वारा २० डिसम्बर् २०२५ तमे दिने २० पंजाब्-यूनिट्-मैदाने महत् हर्षेण, उत्साहेन सौहार्देन च “सर्वाङ्गीण-विकास” इति विषयाधारेण एकः रोमाञ्चकः सजीवः क्रीडादिवसः समायोजितः।
अस्मिन् अवसरे चिनाब्-ब्रिगेड्-समूहस्य कमाण्डरः ब्रिगेडियर् कुमार् आनन्दः, यः आर्मी पब्लिक स्कूल् दमाना इत्यस्य अध्यक्षः अपि अस्ति, मुख्यातिथिरूपेण कार्यक्रमस्य अध्यक्षतां कृतवान्। एफ्.डब्ल्यू.ओ. चिनाब्-ब्रिगेड्-समूहस्य अध्यक्षा श्रीमती सुरभि सोनल् आनन्दः सम्मानितातिथिरूपेण समारोहस्य शोभां वर्धितवती। विविधइकाईनां कमाण्डिङ्ग्-ऑफिसरैः उत्साहीभिः अभिभावकैश्च सहितानां बहूनां जनानां उपस्थित्या कार्यक्रमः अधिकं गरिमामयः अभवत्।
अतिथीनां गणमान्यानां च औपचारिकं स्वागतं एकता-गुप्ता (पी.जी.टी. आङ्ग्लभाषा) तथा मनु-कुमारी (पी.जी.टी. हिन्दीभाषा) इत्याभ्यां कृतम्। तदनन्तरं विद्यालयस्य राष्ट्रिय-आन्ताराष्ट्रिय-क्रीडासिद्धिं प्राप्तैः विद्यार्थिभिः “महिमा-मशालः” वहिता, या क्रीडाभावनायाः प्रतीकरूपा आसीत्। अनन्तरं क्रीडोपकप्तानेन क्रीडकानां शपथग्रहणं कारितम्। ततः मुख्यातिथिना गुब्बारकाणां (बैलूनानां) विमोचनं कृत्वा क्रीडासभायाः औपचारिकः आरम्भः उद्घोषितः।
---------------
हिन्दुस्थान समाचार