Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 20 दिसंबरमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सरमा शनिवासरे प्रधानमन्त्रिनरेन्द्रमोदीमहोदयस्य गुवाहाटी-नगरे आगमनसमये तं हार्दिकतया स्वागतं कृतवान्। अस्मिन् अवसरे स्वीय-संबोधने मुख्यमन्त्रिणा उक्तं यत् आगामिकाले जनाः आङ्ग्लभाषायाः अक्षरं “ए” एप्पल्-शब्देन न, अपि तु असम्-राज्येन सह सम्बद्ध्य द्रक्ष्यन्ति, यत् राज्यस्य वर्धमानां पहचानं विकासं च सूचयति।
एतस्मिन्नेव प्रसङ्गे मुख्यमन्त्रिणा कांग्रेस-दले तीक्ष्णः प्रहारः कृतः। तेन उक्तं यत् असम-राज्यस्य प्रथमः मुख्यमन्त्री लोकप्रिय-गोपीनाथ-बर्दोलै-महोदयः कांग्रेस-दलेन कदापि यथोचितं सम्मानं न प्राप्तवान्। सः अवदत् यत् लोकप्रिय-गोपीनाथ-बर्दोलै-महोदयः कांग्रेसस्य मुख्यमन्त्री आसीत् इत्यपि सत्ये, तथापि दीर्घकालं सत्तायां स्थित्वा अपि तेन दलतः सम्मानः न प्रदत्तः। डॉ. सरमा दावां कृतवान् यत् भारतीय-जनता-पक्षस्य सर्वकारेण एव लोकप्रिय-गोपीनाथ-बर्दोलै-महोदयस्य योगदानस्य विरासतायाश्च सम्मानार्थं ठोसाः उपायाः स्वीकृताः। तेन उक्तं यत् वर्तमान-सर्वकारः असम-राज्यस्य इतिहासं, संस्कृतिं, महान्-नेतॄणां योगदानं च संरक्षितुं पूर्णतया प्रतिबद्धा अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता