Enter your Email Address to subscribe to our newsletters


जयपुरम्, 20 दिसंबरमासः (हि.स.)।राज्यपालः हरिभाऊ बागडे अवदत् यत् सैनिकः कदापि पूर्वः न भवति। सः यदा सेनायां न अपि भवति, तदा अपि राष्ट्रनिर्माणे स्वीयां सहभागितां निर्वहति। सः उक्तवान् यत् “सैनिक” इति शब्द एव शिरासु उत्साहं जनयति। माखनलालचतुर्वेदिना विरचितायाः अभिलाषा इति काव्यपुस्तकस्य पङ्क्तीः उद्धृत्य सः अवदत् यत् सैनिकाः सदा तमेव मार्गं वृण्वन्ति यः वीरतया सम्बद्धः भवति। मातृभारत्यै सर्वस्वस्य समर्पणमेव तेषां एकमात्रं लक्ष्यं भवति।
राज्यपालः बागडे शनिवासरे आर्मी-एरिया-श्रवणागारे अखिलभारतीयपूर्वसैनिकसेवापरिषदः षड्विंशतितमस्य वार्षिकाधिवेशनस्य शुभारम्भसमारोहे सम्बोधितवान्। सः पूर्वसैनिकानां तेषां परिवारजनानां च कल्याणं, सम्मानं राष्ट्रनिर्माणे तेषां भूमिकां च अत्यन्तं महत्त्वपूर्णं इति वर्णितवान्। सः अवदत् यत् सैनिकानां परिजनानां हितार्थं सर्वैः मिलित्वा कार्यं कर्तव्यम्।
राज्यपालः पूर्वसैनिकानां सशक्तीकरणाय केन्द्रीय-राज्य-सरकाराभ्यां सञ्चालितानां योजनानां अधिकाधिक-प्रचारस्य अपि आवश्यकतां प्रतिपादितवान्। सः अखिलभारतीयपूर्वसैनिकैः सामाजिकसेवायां, देशभक्तौ, राष्ट्रीयएकतायां तथा युवान् राष्ट्रसेवायै प्रेरयितुं च कृतायाः सक्रियभूमिकायाः प्रशंसां कृतवान्।
अस्मिन् समारोहे देशस्य विभिन्नप्रदेशेभ्यः आगताः पूर्वसैनिकाः, रक्षाविशेषज्ञाः समाजस्य विविधवर्गाणां प्रतिनिधयश्च सहभागी अभवन्। मेजर-जनरलः अनुजमाथुरः परिषदः कार्याणां विषये विस्तरेण अवगतिं दत्तवान्। अस्मिन्नेव अवसरें परिषदः स्मारिकायाः लोकार्पणं अपि कृतम्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani