Enter your Email Address to subscribe to our newsletters

मण्डी, २० दिसम्बरमासः (हि.स.)।
मण्डीजनपदे अग्रगण्यशिक्षणसंस्थायां एस.वी.एम्. वरिष्ठमाध्यमिकपाठशालायां, महाजनबाजारमण्डी-स्थितायां, गीता-जयन्तीसमारोहः हर्षोल्लासेन आयोजितः। अस्मिन् अवसरे डॉ. केशवानन्द-कौशलः, सेवानिवृत्तः प्राचार्यः, राजकीय-संस्कृतमहाविद्यालयः सुन्दरनगरम्, मुख्यातिथिरूपेण उपस्थितः आसीत्। तथैव डॉ. लीलाधरः, सेवानिवृत्तः प्राचार्यः, संस्कृतमहाविद्यालयः शिमला, तथा प्रोफेसर् मनजीतशर्मा, साहित्याचार्यः, संस्कृतमहाविद्यालयः सुन्दरनगरम्, विशिष्टातिथिरूपेण उपस्थिताः आसन्।
मुख्य अतिथिना दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भः कृतः। तेन श्रीमद्भगवद्गीतायाः महत्त्वविषये गहनं विस्तृतं च विवेचनं कृतम्, तथा कर्मणः सर्वोपरित्वं प्रतिपाद्य धर्ममार्गे चलितुं प्रेरणा दत्ता। पाठशालायाः छात्र-छात्राश्च श्लोकगायनम्, गीता-आधारित-भाषणप्रतियोगिताम्, प्रश्नोत्तरीप्रतियोगिताम्, बाललीलाम्, नृत्यनाटिकाम्, समूहनृत्यं च प्रस्तुतवन्तः, येन सर्वे दर्शकाः मन्त्रमुग्धाः अभवन्।
श्लोकोच्चारणप्रतियोगितायां अष्टमीकक्षायाः कार्तिकः प्रथमस्थानं, सप्तमीकक्षायाः अंशुमान् द्वितीयस्थानं, षष्ठीकक्षायाः शानवी तृतीयस्थानं प्राप्तवती। भाषणप्रतियोगितायां नवमीकक्षायाः पव्या प्रथमस्थानं, नवमीकक्षायाः निहारिका द्वितीयस्थानं, नवमी-कक्षायाः दीवा तृतीयस्थानं प्राप्तवती।
प्रश्नोत्तरी-प्रतियोगितायां दशमी-कक्षायाः कनिष्का नवमी-कक्षायाः अनन्या च प्रथमस्थानं, नवमी-कक्षायाः रितिका दशमी-कक्षायाः मान्या च द्वितीयस्थानं, नवमी-कक्षायाः वंशिका दशमी-कक्षायाः अक्षिमा च तृतीयस्थानं प्राप्तवत्यौ। मुख्य अतिथिना छात्रेभ्यः छात्रिकाभ्यश्च स्मृतिचिह्नानि प्रमाणपत्राणि च प्रदत्तानि।
अस्मिन् अवसरे प्रबन्धसमितेः अध्यक्षा रजनीगोयल, उपाध्यक्षा स्नेहलता-चोपड़ा, सचिवा निर्मलाकात्यायनी, कोषाध्यक्षा याचना-शर्मा, तथा सदस्येषु आशुतोष-पाल-चोपड़ा, सिद्धार्थ-कात्यायन, प्रधानाचार्यः डॉ. उमेश-मण्डयाल, उपप्रधानाचार्यः गुरचरन-सिंहः, समस्तः अध्यापकवर्गः, छात्र-छात्राश्च तेषाम् अभिभावकाश्च उपस्थिताः आसन्।
कार्यक्रमस्य अन्ते पाठशालायाः प्रधानाचार्यः डॉ. उमेशमण्डयालः कार्यक्रमस्य प्रशंसां कृत्वा धन्यवादप्रस्तावेन सह सर्वेषां आभारं व्यक्तवान्। भगवद्गीतायाः आरत्याः सह एषः कार्यक्रमः सफलतया सम्पन्नः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता