नववर्षे रेल–यात्रिकाणां कष्टानि वर्धितानि, दक्षिणपूर्वरेलवेविभागेन अनेकाः मेमू–रेलयानानि निरस्तिकृतानि
खड़गपुरम्, 20 दिसंबरमासः (हि.स.)। नववर्षस्य आरम्भात् पूर्वमेव यात्रिकाणां कृते दुःखदसमाचारः प्रकटितः। दक्षिण–पूर्व–रेलवेण “परिचालनगत सीमाः” इत्यस्य उल्लेखेन कतिपय मेमू–रेलयानानां रद्दीकरणस्य घोषणा कृताऽस्ति। रेल्वे–विभागस्य अनुसारं, आगामे द्वौ जनवर
ट्रेनों रद्द होने की सूचना


खड़गपुरम्, 20 दिसंबरमासः (हि.स.)। नववर्षस्य आरम्भात् पूर्वमेव यात्रिकाणां कृते दुःखदसमाचारः प्रकटितः। दक्षिण–पूर्व–रेलवेण “परिचालनगत सीमाः” इत्यस्य उल्लेखेन कतिपय मेमू–रेलयानानां रद्दीकरणस्य घोषणा कृताऽस्ति। रेल्वे–विभागस्य अनुसारं, आगामे द्वौ जनवरी 2026 तः आगामि निर्देशपर्यन्त एते मेमू–रेलयानि निरस्तानि भविष्यन्ति।

एतेषां रेलयानां निरात्वात् पश्चिम–मेदिनीपुर–जिलायाः खड़गपुर–बेलदा च, झाड़ग्राम–बांकुड़ा–पुरुलिया च जनपदस्य सहस्राणि प्रतिदिनं यात्रा कुर्वन्ति यात्रिकाः महतीम् असुविधाम् अनुभवन्ति।

द्वौ जनवरी आरम्भतः रद्दाणि मेमू–रेलयानि—

68047 खड़गपुर–बेलदा मेमू सामान्ययानम्

68087 / 68088 विष्णुपुर–धनबाद मेमू

68095 बांकुड़ा–मयनापुर मेमू

68093 / 68094 खड़गपुर–झाड़ग्राम मेमू

68023 / 68024 झाड़ग्राम–पुरुलिया मेमू

68025 चक्रधरपुर–राउरकेला मेमू

68029 राउरकेला–झारसुगुड़ा मेमू

68031 / 68032 झारसुगुड़ा–संबलपुर मेमू

तृतीयं जनवरी आरम्भतः निरस्तीकृतानि मेमू–रेलयानानि— 68048 बेलदा–खड़गपुर मेमू

68033 / 68034 झारसुगुड़ा–संबलपुर मेमू

68030 झारसुगुड़ा–राउरकेला मेमू

68026 राउरकेला–चक्रधरपुर मेमू

उल्लेखनीयं यत् अतीतेऽपि चलनवर्षे खड़गपुर–आद्रा खण्डे अनेकानि रेलयानानि निरस्तीकृतानि सन्ति। निरन्तरं रेलयानानां निरस्तीकरणात् यात्रिकेषु रोषः चिन्ता च उत्पन्ना।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता