Enter your Email Address to subscribe to our newsletters

धौलपुरम्, 20 दिसंबरमासः (हि.स.)।
पीएमश्री केन्द्रीयविद्यालये धौलपुरे वार्षिकः क्रीडादिवसः हर्षोल्लासेन सौहार्देन च सम्यग् आचरितः। अस्य कार्यक्रमस्य शुभारम्भः मुख्यातिथिना शिक्षाविद्या अर्चनासिंहया, या जवाहरनवोदयविद्यालयस्य धौलपुरस्य प्राचार्या अस्ति, माता सरस्वत्याः प्रतिमायाः पुरतः दीपप्रज्वलनं, ध्वजारोहणं मशालप्रज्वलनं च कृत्वा अभवत्।
अस्मिन् अवसरः विद्यालयस्य प्राचार्यः मन्मथशर्मा स्वीयभाषणे अवदत् यत् छात्रजीवने क्रीडाः अत्यन्तं महत्त्वपूर्णाः सन्ति। क्रीडाः केवलं शारीरिकविकासाय न आवश्यकाः, अपि तु मानसिकदृढतां दलभावनां च विकसितुं सहाय्यकाः भवन्ति। सः विद्यार्थिनः नित्यं क्रीडासु भागं ग्रहीतुं प्रेरितवान्।
कार्यक्रमस्य संयोजकः शारीरिकशिक्षकः इश्ताक् अली वार्षिकक्रीडादिवसस्य विविधगतिविधीः सर्वेभ्यः अवगतवान् कृत्वा क्रीडानां महत्त्वं प्रकाशयामास। मुख्यातिथिना क्रीडादिवसस्य आयोजनाय अनुमतिः दत्ता तथा मशालदौडस्य कृते अग्निप्रज्वलनं कारितम्। ततः परं राष्ट्रियस्तरे तथा स्कूलगेम्स् फेडरेशन् ऑफ् इण्डिया इत्यस्य अन्तर्गतं विद्यालयस्य प्रतिनिधित्वं कृतवन्तः चिन्मयगोस्वामी, आदित्यः, अभिनवः, अमनमीणा, मोहम्मद् जैद् इत्येते छात्राः मशालदौडं सम्पन्नवन्तः।
तत्पश्चात् विद्यालयस्य चतुर्णां सदनानां— शिवाजी, टैगोर, अशोका, रमन— द्वारा भव्यं मार्चपास्ट् कृतम्। एतेषां सदनानां हाउसकैप्टनैः मंचे मुख्यातिथये सलामी दत्ता। कक्षा द्वादश्याः छात्रा तथा विद्यालयस्य बालिकाकप्तान् मानवीराणा सर्वान् प्रतिभागिनः शपथं ग्राहयामास।
अस्मिन् अवसरः विद्यार्थिभिः सामूहिकनृत्यं एरोबिक्स् इत्यादयः क्रियाः अपि प्रदर्शिताः। मुख्यातिथिः विद्यार्थिनः सम्बोध्य अवदत् यत् सर्वे प्रतिभागिनः सत्यया दलभावनया सह क्रीडासु भागं गृह्णन्तु तथा ईमानदारीपूर्वकं स्वीयं उत्साहं, साहसं, उमङ्गं च क्रीडाक्रियासु धारयन्तु।
क्रीडाकार्यक्रमेषु बालवाटिकातः आरभ्य प्राथमिकविभागपर्यन्तं विद्यार्थिनां कृते गुब्बारभेदनदौडः, मेढकदौडः, नीम्बूचम्मचदौडः इत्यादयः प्रतियोगिताः आयोजिताः। कक्षा षष्ठीतः द्वादशपर्यन्तं विद्यार्थिनां कृते शतमिटरदौडः, द्विशतमीटरदौडः, चतुश्शतमीटरदौडः, रिलेरेस्, रज्जुकर्षणप्रतियोगिता च बालकबालिकावर्गेषु आयोजिता। विजयी छात्रेभ्यः छात्राभ्यश्च पदकानि प्रमाणपत्राणि च प्रदत्तानि।
विद्यालयस्य शिक्षकः मुकेशवर्मा सर्वेभ्यः धन्यवादं ज्ञापितवान्। कार्यक्रमस्य संचालनं संजयः, दीपककुशवाहः, कुलवीरश्च संयुक्तरूपेण अकुर्वन्। अस्मिन् अवसरः रामहरीमीणा, महिपालसिंहः, एम्.आर्. रावतः, बद्रीप्रसादः, राकेशकुमारः, शिवराजः, राखीगुप्ता, जितेन्द्रसिंहः, भीमराजमाली, नवीनकुमारः, दीपिका, ममता, अञ्जूचौधरी, सोनम, हेमन्तशर्मा, रवीन्द्रकुमारः, वीरभानसिंहः, रोहितकुमारः, वन्दनात्यागी, गुंजनशर्मा इत्यादयः अन्ये च शिक्षकाः शिक्षिकाश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार