ऑपरेशन कालनेमि: पुलिसदलं सप्तवंचकानां ग्रहणमकरोत्
हरिद्वारम् , 20 दिसंबरमासः (हि.स.)। प्रदेशे सर्वत्र सञ्चालितस्य “आपरेशन कालनेमि” इत्यस्य अन्तर्गतं कार्यवाहीं कुर्वती ज्वालापुरकोतवालीस्थितापुलिस् सप्त ढोंगिबाबा इत्येतान् गृहीतवती अस्ति। प्राप्तसूचनानुसारं प्रदेशव्यापी रूपेण ढोंगिबाबानां विरुद्धं
पुलिस गिरफ्त में आरोपित


हरिद्वारम् , 20 दिसंबरमासः (हि.स.)।

प्रदेशे सर्वत्र सञ्चालितस्य “आपरेशन कालनेमि” इत्यस्य अन्तर्गतं कार्यवाहीं कुर्वती ज्वालापुरकोतवालीस्थितापुलिस् सप्त ढोंगिबाबा इत्येतान् गृहीतवती अस्ति। प्राप्तसूचनानुसारं प्रदेशव्यापी रूपेण ढोंगिबाबानां विरुद्धं “आपरेशन कालनेमि” निरन्तरं प्रवर्तते। तस्यैव अन्तर्गतं निरीक्षणकाले ज्वालापुरकोतवालीपुलिस् सप्त बाबान् गृहीतवती। एते सर्वे तन्त्र-मन्त्र-जादू-टोना इत्यादिकौशलानि दर्शयित्वा जनान् वञ्चयन्ति स्म।

गृहीतानां अभियुक्तानां नामानि विवरणानि च एतानि सन्ति—

पीर् मोहम्मद् शाहः बिन्दुषापुत्रः, वयः षष्टिवर्षीयः, निवासी जमालपुरशहंशाहबाद् ग्रामः, अलीगढ-उत्तरप्रदेशः, वर्तमाननिवासी महमूदपुरग्रामः, पिरान् कलियरः।

रमेशगिरिः ओमप्रकाशशर्मापुत्रः, वयः सप्तषष्टिवर्षीयः, निवासी सिमलीमोहल्ला, लक्सरः।

मनोजः ऋषिपालपुत्रः, वयः चत्वारिंशद्वर्षीयः, निवासी आदर्शनगरम्, नजीबाबादः, बिजनौरजिला-उत्तरप्रदेशः, वर्तमाननिवासी सिमलीमोहल्ला, लक्सरथाना।

सन्नीकुमारदेवः लेखूदासपुत्रः, वयः सप्तचत्वारिंशद्वर्षीयः, निवासी मध्यप्रदेशः, वर्तमाननिवासी शिवपुरी, लक्सरकोतवाली।

चन्दनसिंहः नारायणसिंहपुत्रः, निवासी उपरारीग्रामः, अल्मोडाजिला-उत्तराखण्डः, वर्तमाननिवासी पीठबाजारः, ज्वालापुरकोतवाली।

अशोककुमारः गणेशचन्द्रपुत्रः, वयः पञ्चचत्वारिंशद्वर्षीयः, निवासी खुर्जा, उस्मानखान् अहीरपाड़ा, बुलन्दशहर-उत्तरप्रदेशः, वर्तमाननिवासी बाबा बर्फानी आश्रमः, कनखलथाना।

रतनवीरसिंहः जबरसिंहपुत्रः, वयः पञ्चचत्वारिंशद्वर्षीयः, निवासी जवान्, खुर्जा, बुलन्दशहर-उत्तरप्रदेशः, वर्तमाननिवासी बाबा बर्फानी आश्रमः, कनखलथाना, हरिद्वारजनपदः।

पुलिस् सर्वेषां विधिसम्मतं चालानं कृत्वा आवश्यकां कार्यवाहीं सम्पादितवती।

हिन्दुस्थान समाचार