Enter your Email Address to subscribe to our newsletters

ड्रोन आधृत्य आकाशीय विज्ञानों यावत् ,उत्तरप्रदेशो वंचितच्छात्रेभ्योऽत्याधुनिक तकनीकीप्रशिक्षणम्
लखनऊ, 21 दिसंबरमासः (हि.स.)।उत्तरप्रदेशे स्थितानि अटलआवासीयविद्यालयानि अधुना केवलं आवासीयशिक्षासंस्थानानि न भविष्यन्ति अपि तु आधुनिकतकनीकीशिक्षायाः नवाचारस्य च केन्द्ररूपेण विकसितानि करिष्यन्ते। राष्ट्रीयशिक्षानीतिः 2020 तथा मुख्यमंत्री योगीआदित्यनाथस्य दूरदर्शी दृष्टिकोणानुसारं प्रदेशसरकारा प्रत्येकस्मिन् अटलआवासीयविद्यालये कम्पोजिट् स्किल् इनोवेशन प्रयोगशालायाः स्थापना दिशायां शीघ्रतया कार्यं करोति।अस्याः पहलायाः मुख्योद्देश्यः ग्रामीणश्रमिकवंचितपृष्ठभूमेः आगतानां छात्राणां कृते ड्रोनप्रविधिः रोबोटिक्स् स्वचालनम् अन्तरिक्षविज्ञानम् त्रिआयामीमुद्रणम् कृत्रिमबुद्धिमत्ता च इत्यादीनां आधुनिकप्रविधीनां व्यावहारिकानुभवस्य उपलब्धता अस्ति। एतत् प्रथमवारं भविष्यति यदा एते वर्गीयछात्राः विद्यालयस्तरे अत्याधुनिकतकनीकीप्रशिक्षणं प्राप्स्यन्ति।मिशनरूपेण योजना कार्यान्विता भविष्यतिमुख्यमंत्री योगीआदित्यनाथस्य निर्देशानुसारं एषा परियोजना मिशनरूपेण कार्यान्विता करिष्यते। द्विमासाभ्यन्तरे पायलट् परियोजनायाः अन्तर्गतं चयनितेषु विद्यालयेषु इनोवेशन प्रयोगशालानां स्थापना सुनिश्चितं करिष्यते। षड्मासाभ्यन्तरे सर्वेषु अटलआवासीयविद्यालयेषु प्रयोगशालाः पूर्णतया क्रियाशीलाः भविष्यन्ति।उत्तरप्रदेशभवनसन्निर्माणकर्मकारकल्याणबोर्डस्य सचिवा अटलआवासीयविद्यालयानां महानिदेशिका च पूजायादवः अवदत् यत् अस्य परियोजनायाः कृते आवश्यकाः वित्तीयसंसाधनाः सुनिश्चिताः कृताः सन्ति येन कार्ये कापि बाधा न आगमिष्यति।विशेषज्ञसंस्थाभ्यः सहयोगःप्रयोगशालानां संचालनार्थं प्रशिक्षणार्थं च देशस्य प्रमुखाः तकनीकीसंस्थाः विशेषज्ञएजेन्सीश्च सहयोगं दास्यन्ति। प्रथमचरणे चयनिताः शिक्षकाः उच्चस्तरीयप्रशिक्षणं प्राप्य मास्टर् प्रशिक्षकरूपेण निर्मीयन्ते ये अनन्तरं अन्यशिक्षकान् छात्रांश्च प्रशिक्षयिष्यन्ति।एताभिः इनोवेशन प्रयोगशालाभिः छात्रेषु नवाचारबुद्धिः समालोचनात्मकचिन्तनं समस्यासमाधानकौशलं च इत्यादयः एकविंशतिशताब्द्याः आवश्यकाः क्षमताः विकसिताः भविष्यन्ति येन ते भावितिषु सज्जाः भविष्यन्ति।उत्तरप्रदेशः प्रविधिप्रेरितशिक्षाकेन्द्ररूपेण विकसितः भविष्यतिसरकारस्य विश्वासः अस्ति यत् एषा पहल उत्तरप्रदेशं प्रविधिप्रेरितशिक्षाकेन्द्ररूपेण स्थापितं करिष्यति। अटलआवासीयविद्यालयेभ्यः निर्गच्छन्तः छात्राः आगामिकाले न केवलं शैक्षणिकदृष्ट्या अपि तु तकनीकीदृष्ट्या अपि प्रदेशस्य राष्ट्रस्य च नेतृत्वं कर्तुं समर्थाः भविष्यन्ति।
हिन्दुस्थान समाचार