Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमः, 21 दिसंबरमासः (हि.स.)।
झारखण्डराज्यसर्वकारस्य प्रशासनिकसुधारविभागेन विज्ञापिते सूचना आयुक्त पदे नियुक्त्यर्थं जमशेदपुर निवासी मनरेगा लोकपालः अरुणाभा करः रविवासरे स्वीयां दावेदारी प्रस्तुतवान्। शासनक्षेत्रे, न्यायव्यवस्थायां, पत्रकारितायां तथा सामाजिकसेवाक्षेत्रे च चतुस्त्रिंशत् (३४) वर्षेभ्यः अधिकं अनुभवं धारयन् अरुणाभा करः अस्य पदस्य कृते एकः सशक्तः दावेदारः इति मन्यते।
सः अवदत् यत् लोकपालरूपेण अर्जितः अनुभवः झारखण्ड सूचना आयुक्तस्य दायित्वनिर्वाहाय दृढं आधारं प्रदानं करोति। अरुणाभा करः वर्तमानकाले पश्चिमी सिंहभूम तथा पूर्वी सिंहभूम जनपदयोः महात्मा गांधी राष्ट्रिय ग्रामीण रोजगार गारण्टी योजनायाः लोकपालरूपेण कार्यरतः अस्ति। अस्य कार्यकालस्य मध्ये तेन शिकायत-निवारण-तन्त्रं प्रभावी कृत्वा पारदर्शिता तथा उत्तरदायित्वं सुदृढीकृतम्। मनरेगायाः सम्बन्धिनां अनेकेषां परिवादानां समाधानात् ग्रामीणक्षेत्रेषु योजनायां विश्वासः वर्धितः तथा प्रशासनिकप्रक्रियासु सुधारः अभवत्।
वर्षे २०२० तमे झारखण्ड राज्य विधिक सेवा प्राधिकरणेन चयनितः सन् सः पूर्वी सिंहभूम जनपदस्य स्थायी लोक अदालत् मध्ये जूरी सदस्यः अभवत्। अस्यां भूमिकायां तेन बैंकिङ्ग्, बीमा, विद्युत्, परिवहन तथा दूरसञ्चारक्षेत्रेषु सम्बद्धानां सहस्रशः विवादानां परस्परसहमत्या समाधानं कृतम्। कोरोना-कालसमये अपि तस्य योगदानं प्रशंसनीयं आसीत्, येन सामान्यजनानां कृते शीघ्रन्यायः उपलब्धः अभवत्।
सामाजिकसेवाक्षेत्रे अरुणाभा करः झारखण्ड स्टेप् अप् ट्रस्ट् इत्यस्य संस्थापकः तथा कार्यकारी निदेशकः अपि अस्ति। संस्थायाः माध्यमेन तेन स्वास्थ्ये, शिक्षायां, पोषणे, महिलासशक्तिकरणे तथा आदिवासीविकासे निरन्तरं कार्यं कृतम्। सारण्डा क्षेत्रे आदिवासीनाम् आजीविकाविषये कृतं तस्य शोधकार्यं झारखण्डसरकारेण फेलोशिप् प्रदाय सम्मानितम् आसीत्।
अरुणाभा करः एकः वरिष्ठः पत्रकारः अपि अस्ति।
---------------
हिन्दुस्थान समाचार