श्री राम सेवक सभायां पोषस्य प्रथम रविवासरात् शुभारब्धा निर्वाणहोलिका
नैनीतालम्, 21 दिसंबरमासः (हि.स.)। नगरस्य प्राचीनतमा वर्षे 1918 तमे स्थापितायाः धार्मिकसंस्थायाः श्रीरामसेवकसभायाम् पौषमासस्य प्रथमात् रविवासरात् परम्परागतहोलीगायनस्य शुभारम्भः अभवत्। कार्यक्रमस्य आरम्भः दीपप्रज्वालनेन अभवत् ततः लोकपरम्परायाः होलिया
पौष माह के पहले रविवार को होली की परंपरागत होती का शुभारंभ करते विधायक एवं अन्य।


नैनीतालम्, 21 दिसंबरमासः (हि.स.)। नगरस्य प्राचीनतमा वर्षे 1918 तमे स्थापितायाः धार्मिकसंस्थायाः श्रीरामसेवकसभायाम् पौषमासस्य प्रथमात् रविवासरात् परम्परागतहोलीगायनस्य शुभारम्भः अभवत्। कार्यक्रमस्य आरम्भः दीपप्रज्वालनेन अभवत् ततः लोकपरम्परायाः होलियारैः बैठकीहोलीगायनेन सभा भक्तिमयवातावरणेन परिपूर्णा कृता।

सूचितं यत् पौषमासस्य प्रथमात् रविवासरात् कुमाऊँअञ्चले प्रारभ्यमाणा एषा परम्परा निर्वाणहोली इति कथ्यते। एषा होली वर्णविलासात् पृथक् शास्त्रीयसङ्गीतस्य लोकपरम्परायाः च आधारेण आयोजिताऽस्ति। अस्यां मन्दिरेषु सभासु च गणेशवन्दनया आरम्भः कृत्वा ठुमरीशैल्यां होलीगीतानां गायनं क्रियते।

अस्यां होल्यां भैरवी पहाडी केदार बसन्त इत्यादिषु प्रमुखरागेषु चतुर्षु चरणेषु गायनं भवति। एषा आत्मशुद्धेः ईश्वरभक्तेः आध्यात्मिकानन्दस्य च प्रतीकरूपेण मन्यते।

शीतऋतौ सूर्यदेवस्य आराधनायाः ज्ञानप्रकाशस्य च अस्यां विशेषं महत्त्वं स्वीक्रियते। बसन्तपञ्चम्यानन्तरं अस्यां शृङ्गारभावस्य समावेशः भवति। अद्य होलीशुभारम्भावसरे विधायकया सरिताआर्यया पूर्वविधायकेन डॉ नारायणसिंहजन्तवालेन संस्कृतिकर्मिणा जहूरआलमेन संरक्षकेण घनश्यामसाहेन पूर्वाध्यक्षेन मुकेशजोशिना च दीपप्रज्वालनं कृतम्।

विधायिका सरिताआर्या अस्मिन् अवसरे सर्वेभ्यः होलीपर्वणः शुभाशयाः प्रदत्तवती। अस्मिन् कार्यक्रमे प्रसिद्धैः होलियारैः नरेशचम्यालेन सतीशपाण्डेयेन अजयकुमारेन मनोजपाण्डेयेन रक्षितसाहेन नवीनबेगानया गिरीशभट्टेन सञ्जुना प्रकाशभट्टेन नीरजसतीना राहुलजोशिना च गणेशवन्दनया सह “सब सखियांनं में राधा”, “मैया के मंदिरवा में”, “शिवशंकर को ध्यान”, “अपने राम को मनाऊं”, “मालिक सीता राम” इत्यादिभिः परम्परागतहोलीगीतैः सभायां विशेषः भावः समुत्पादितः।

कार्यक्रमे सभाध्यक्षः मनोजसाहः महासचिवः जगदीशबवाडी उपसचिवः राजेन्द्रबिष्टः प्रबन्धकः विमलचौधरी देवेंद्रलालसाहः राजेन्द्रलालसाहः गिरीशजोशी गोविन्दसिंहः ललितसाहः डॉ रेखासाहः सुषमाडंडरियालः हरीशराणा अमरसाहः च सह अनेकाः श्रद्धालवः नगरवासी च उपस्थिताः आसन्।

हिन्दुस्थान समाचार