गीता ज्ञान सप्ताहस्य पंचम दिवसे तपःसंयमयोः महत्तायां प्रक्षिप्तः प्रकाशः
कठुआ, 21 दिसंबरमासः (हि.स.)। स्वामिश्रद्धानन्दस्य बलिदानदिवसस्य स्मृत्यर्थं आयोजितस्य गीताज्ञानसप्ताहस्य पञ्चमे दिवसे अद्य आर्यसमाजकठुआनगरे श्रद्धायाः उत्साहस्य च अद्भुतः सङ्गमः दृष्टः। अद्यतनकार्यक्रमे आदौ चतुर्थाध्यायस्य ज्ञानयोगस्य सारः प्रस्तुत
On the fifth day of the Gita Gyan week, the importance of austerity and restraint was highlighted.


कठुआ, 21 दिसंबरमासः (हि.स.)। स्वामिश्रद्धानन्दस्य बलिदानदिवसस्य स्मृत्यर्थं आयोजितस्य गीताज्ञानसप्ताहस्य पञ्चमे दिवसे अद्य आर्यसमाजकठुआनगरे श्रद्धायाः उत्साहस्य च अद्भुतः सङ्गमः दृष्टः। अद्यतनकार्यक्रमे आदौ चतुर्थाध्यायस्य ज्ञानयोगस्य सारः प्रस्तुतः अभवत् ततः अनन्तरं पञ्चमाध्यायस्य तपःसंयमयोः आरम्भः कृतः।

मुख्यवक्त्री पूजनीया सुश्री गायत्रीदेवी स्वप्रवचने तपःसंयमयोः महत्त्वे गहनं प्रकाशं कृतवती। सा अवदत् यत् तपस्या आत्मनः शक्तिः अस्ति संयमः तस्य सौन्दर्यम्। यदा मनुष्यः स्वेन्द्रियेषु नियन्त्रणं स्थापयति तपोमार्गे च अग्रसरति तदैव सः सत्यं ज्ञानं आत्मबलं च प्राप्नोति।

गायत्रीदेवी महोदया स्पष्टं कृतवती यत् गीतायाः पञ्चमाध्यायः अस्मान् शिक्षयति यत् आत्मसंयमेन तपस्यया च एव जीवनं अनुशासितं भवति समाजे च शान्तेः एकतायाः च प्रसारः भवति। सा विशेषतया “यज्ञरूप प्रभो अस्माकं भावान् उज्ज्वलान् कुरु” इति प्रार्थनां तपसंयमाभ्यां सह संयोज्य अवदत् यत् एषा प्रार्थना अस्मान् स्वविचारान् शुद्धान् उज्ज्वलान् च कर्तुं प्रेरयति।

अस्मिन् अवसरे मुख्यातिथिः भारतीयजनतापक्षस्य जम्मूकश्मीरप्रदेशस्य महामन्त्री गोपालमहाजनः स्वविचारान् व्यक्तवान्। सः अवदत् यत् गीतायाः सन्देशः केवलं धार्मिकशिक्षा न अस्ति अपि तु समाजं राष्ट्रं च एकत्र संयोजयितुं मार्गः अस्ति। तपःसंयमाभ्यां एव व्यक्ति स्वजीवनं अनुशासितुं शक्नोति राष्ट्रस्य शक्तिं च वर्धयितुं समर्थो भवति। युवजनाः गीतायाः आदर्शान् स्वीकृत्य समाजसेवायां राष्ट्रनिर्माणे च योगदानं ददतु इति सः आह्वानं कृतवान्।

संरक्षकः भारतभूषणः अवदत् यत् गीताज्ञानसप्ताहः केवलं धार्मिकः कार्यक्रमः न अस्ति अपि तु समाजजागरूकतायाः युवानां धर्मकर्मज्ञानमार्गे प्रेरणायाः च आन्दोलनः अस्ति। अध्यक्षः विशनभारती स्वोद्बोधने मुख्यवक्त्रीं गायत्रीदेवीं मुख्यातिथिं गोपालमहाजनं सर्वान् उपस्थितनागरिकान् च हृदयतः धन्यवादं ज्ञापितवान्। सः अवदत् यत् एषः आयोजनः केवलं आर्यसमाजकठुआस्य न अपि तु सम्पूर्णसमाजस्य शक्तेः एकतायाः च प्रतीकः अस्ति।

कार्यक्रमे स्थानीयनागरिकाणां समाजसेविनां युवजनानां च उत्साहपूर्णा सहभागिता आसीत्। गीताज्ञानसप्ताहः प्रतिदिनं मध्याह्ने एकवादनात् चतुर्वादनपर्यन्तं आयोजितः भवति यस्मिन् विभिन्नाध्यायानां विषये विद्वद्भिः प्रवचनानि दास्यन्ते।

---------------

हिन्दुस्थान समाचार