Enter your Email Address to subscribe to our newsletters


सीतापुरम्, 21 दिसम्बरमासः (हि.स.)। आगामिनि 25 दिसम्बर दिनाङ्के लखनऊ-नगरे स्थिते प्रेरणा-स्थले प्रस्तावितं प्रधानमन्त्रिणः नरेन्द्र-मोदेः कार्यक्रमं प्रति जनपदे सीतापुरे प्रशासनिक-तथा-पुलिस-स्तरे व्यापकाः सिद्धताः क्रियमाणाः सन्ति। जनपदात् बहुसंख्यके लाभार्थिनः कार्यकर्तारश्च कार्यक्रम-स्थलं सुरक्षिततया प्राप्नुयुः, इति उद्देश्येन विशेषा कार्ययोजना प्रवर्तिता अस्ति।
जनपदस्य अष्टादश-विकास-खण्डेभ्यः प्रायः चतुःशती-त्रिंशत् बसानां माध्यमेन एकविंशतिसहस्रं लाभार्थिनः तथा विविध-सरकारी-योजनाभिः सम्बद्धाः जनाः लखनऊं प्रेष्यन्ते। यात्रिकानां सुरक्षा, बसानां सुव्यवस्थित-संचालनं तथा यातायात-व्यवस्थायाः सुदृढीकरणं कर्तुं पुलिस-प्रशासनं दृढान् प्रबन्धान् अकरोत्।
एतस्मिन्नेव क्रमे, सिद्धतां प्रति रविवासर-सायं पुलिस-अधीक्षकः अंकुर-अग्रवालः अध्यक्षतया पुलिस-लाइने बैठकां आयोजितवान्। अस्यां बैठके बसानां मार्ग-सूची, सुरक्षा-व्यवस्था, ड्यूटी-नियुक्त-पुलिस-बलं तथा यातायात-प्रबन्धनं विषये विस्तरेण विचारः कृतः। एस्-पी महोदयेन निर्देशाः दत्ताः यत् सर्वासु बसासु सुरक्षाकर्मिणः नियुक्ताः स्युः तथा निर्दिष्ट-मार्गानां कठोरतया पालनं सुनिश्चितं क्रियताम्।
एस्-पी अवदत् यत् प्रधानमन्त्रिणः कार्यक्रमं दृष्ट्वा कस्यापि स्तरस्य प्रमादः न स्वीकरिष्यते। अस्यां बैठके अपर-पुलिस-अधीक्षकः उत्तरी आलोक-सिंहः, अपर-पुलिस-अधीक्षकः दक्षिणी दुर्गेश-कुमार-सिंहः सहितं सर्वे क्षेत्राधिकारीणः उपस्थिताः आसन्। संवेदनशील-स्थलेषु विशेष-निरीक्षणं स्थापयितुं तथा आपत्कालीन-स्थितौ शीघ्र-कार्रवाई सुनिश्चितं कर्तुं निर्देशाः दत्ताः। प्रशासनं अद्य सिद्धतायाः अन्तिम-रूपं दत्तवान्।
हिन्दुस्थान समाचार