श्याम महोत्सवे निर्गता भव्य निशान शोभायात्रा,जीवितं प्रदर्शनम् आकर्षणस्य केंद्रम्
अररिया 21 दिसम्बरमासः(हि.स.)। फारबिसगञ्जनगरे श्याममहोत्सवं प्रति रविवासरे श्यामपरिवारस्य आयोजनात् भव्याऽनुशासिता च निशानशोभायात्रा निर्गता। अस्याः यात्रायाः शुभारम्भः सिद्धसागरभवनात् अभवत्। महोत्सवसम्बद्धायां निशानयात्रायां बहुसंख्यया श्रद्धालवः स
अररिया फोटो:श्याम महोत्सव में निशान थामे श्याम परिवार के सदस्य


अररिया 21 दिसम्बरमासः(हि.स.)।

फारबिसगञ्जनगरे श्याममहोत्सवं प्रति रविवासरे श्यामपरिवारस्य आयोजनात् भव्याऽनुशासिता च निशानशोभायात्रा निर्गता। अस्याः यात्रायाः शुभारम्भः सिद्धसागरभवनात् अभवत्। महोत्सवसम्बद्धायां निशानयात्रायां बहुसंख्यया श्रद्धालवः सहभागिनो भूताः।

अस्मिन् अवसरे यात्राकाले श्रीखाटूश्यामदेवस्य प्रतिमा विराजयित्वा रमणीयरीत्या अलङ्कृता अभवत्। तां रथे स्थापयित्वा वाद्यघोषैः सह शोभायात्रा सञ्चालिता। यात्रायां सम्मिलिताः भक्ताः उत्साहेन श्रीश्यामबाबायाः जयघोषं कृतवन्तः नृत्यन्तः च दृष्टाः। निशानयात्राकाले नगरस्य वातावरणं पूर्णतया भक्तिमयं जातम्।

उल्लेखनीयं यत् नगरक्षेत्रे समीपवर्तीप्रदेशेषु च खाटूधामनिवासी श्रीश्यामदेवस्य भक्तानां महती संख्या वर्तते। निशानयात्रायां श्रीश्यामबाबायाः भव्याऽलंकारिता झांकी सज्जीकृता आसीत्। शतानि श्रद्धालवः स्वहस्तेषु श्यामध्वजान् धारयन्तः यात्रायां सम्मिलिताः। यात्रायां श्रीश्यामबाबायाः जयघोषैः भजनैः च सम्पूर्णं नगरं प्रतिध्वनितम्।

यात्रायां श्रद्धालवः भक्तिगीतानां तालानुसारं प्रमुदिताः नृत्यन्तः दृष्टाः। निशानशोभायात्रा नगरस्य विविधमार्गान् परिभ्रम्य पुनः सिद्धसागरभवनं प्राप्तवती यत्र तस्याः समापनं जातम्। शोभायात्रायां रामसीतयोः हनुमतः राधाकृष्णयोः च प्रदर्शिन्यः विशेषाकर्षणकेंद्ररूपेण आसन्।

अस्यां शोभायात्रायां स्थानीयविधायकः मनोजविश्वासः नगरपालिकायाः मुख्यपार्षदा वीणादेवी उपमुख्यपार्षदा नूतनभारती पार्षदः बुलबुलयादवः पार्षदः मनोजसिंहः तथा श्यामपरिवारस्य अध्यक्षः श्यामसुन्दरमहेश्वरी दिनेशभूपालः योगेशभूपालः च सहिताः बहवः महिलाः पुरुषाः बालकाः च सहभागिनो भूताः।

हिन्दुस्थान समाचार