Enter your Email Address to subscribe to our newsletters

धौलपुरम्, 21 दिसंबरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवर्षस्य उपलक्ष्ये विद्याभारत्याः विद्वत्परिषद्या रविवासरे स्थानीयभार्गववाटिकायां प्रबुद्धजनविचारगोष्ठी आयोजिताऽभवत्। अस्यां गोष्ठ्यां राष्ट्रीयशिक्षानीतिः 2020 तथा जीवनमूल्यानि, समाजजागरणे विद्याभारत्याः भूमिका, तथा पञ्चपरिवर्तनं अस्माकं भूमिका च इत्येषु विषयेषु गम्भीरं मन्थनं कृतम्।
गोष्ठ्याः मुख्यवक्तारूपेण उपस्थितः वरिष्ठसाहित्यकारः डॉ इन्दुशेखरतत्पुरुषः शिक्षायाः जीवनमूल्यानां च विषये स्वविचारान् व्यक्तवान्। सः अवदत् यत् अद्य शिक्षाक्षेत्रे आदर्शजीवनमूल्यानां विशेषावश्यकता वर्तते। शिक्षा अस्मभ्यं ज्ञानं विचारशीलतां विचारविस्तारक्षमतां च प्रददाति। जीवनमूल्यानि अस्माकं आचरणस्य नैतिकमूल्यानां च प्रतिपादनं कुर्वन्ति। शिक्षा जीवनमूल्यैः सह मिलित्वा अस्माकं समग्रविकासे सहायकानि भवन्ति तथा यथार्थसमृद्धजीवनमार्गे अग्रसरयन्ति।
गोष्ठ्याः अध्यक्षतां वहन् लघुउद्योगभारत्याः जिलोपाध्यक्षः विमलभार्गवः शिक्षा–जीवनमूल्ययोः सम्बन्धं विवृण्वन् व्याख्यानं दत्तवान्। सः सर्वान् पञ्चपरिवर्तनानुसारं जीवनं नेतुं अपि आह्वानं कृतवान्।
गोष्ठ्यां राजस्थानमाध्यमिकशिक्षाबोर्डस्य पूर्वाध्यक्षः प्रोफेसरः भरतरामकुम्हारः अवदत् यत् विद्याभारती भारतस्य सर्वातिवृहद् गैरसरकारीशिक्षासंस्था अस्ति या राष्ट्रीयस्वयंसेवकसंघेन सह सम्बद्धा वर्तते तथा भारतीयसंस्कृतिमूल्याधारितां शिक्षां प्रददाति।
आरएसएसस्य विभागप्रचारकः उत्कर्षः स्वोद्बोधने अवदत् यत् भारतः स्वस्य सनातनसंस्कृतेः सभ्यतायाः परम्पराणां च कारणेन अनादिकालात् विश्वस्य मार्गदर्शनं कृतवान् अस्ति। अद्य यदा देशः एकविंशतितमशताब्द्यां नूतनशिखरं प्रति अग्रसरः अस्ति तदा समाजे अनुशासनस्य देशभक्तेः समरसतायाश्च पुनर्स्थापनं परमावश्यकं जातम्।
विद्वत्परिषदः प्रान्तसंयोजकः बृजेशकुमारगुप्तः परिषदः क्रियाकलापान् विषये प्रकाशं दत्तवान्। विद्याभारत्याः जिलाध्यक्षः नाहरसिंहः जिलाव्यवस्थापकः यदुनाथशर्मा च अन्यैः अतिथिभिः सह विद्याभारतीसंस्थायै उत्कृष्टकार्यं कुर्वतां जनान् सम्मानितवन्तः।
गोष्ठ्याः सञ्चालनं जिलासंयोजकः अनुरागशर्मा कृतवान्। अन्ते सहसंयोजकः डॉ एम के सिंहः आभारप्रदर्शनं कृतवान्।
---------------
हिन्दुस्थान समाचार