बटद्रवा परियोजनायाः मुख्यमंत्री अकरोत् निरीक्षणं, 29 दिनांके अमित शाहः करिष्यति उद्घाटनम्
नगांवः (असमः), 22 दिसंबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डा हिमन्तबिस्वसरमा सोमवासरे बटद्रवा क्षेत्रं गत्वा आकाशीगङ्गा नदीतीरे निर्मीयमाणस्य बटद्रवा परियोजनायाः निरीक्षणं कृतवान्। बटद्रवा परियोजनायाः औपचारिक उद्घाटनं आगामी 29 डिसेम्बर तिथौ केन
Image of the Batadrava Project


नगांवः (असमः), 22 दिसंबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डा हिमन्तबिस्वसरमा सोमवासरे बटद्रवा क्षेत्रं गत्वा आकाशीगङ्गा नदीतीरे निर्मीयमाणस्य बटद्रवा परियोजनायाः निरीक्षणं कृतवान्। बटद्रवा परियोजनायाः औपचारिक उद्घाटनं आगामी 29 डिसेम्बर तिथौ केन्द्रीय गृहमन्त्री अमितशाह महोदयेन करिष्यते।

अद्य निरीक्षणकाले मुख्यमन्त्री परियोजनायाः प्रगतिं समीक्षितवान्। अधिकरिणः तस्मै परियोजनायाः विविधांशान् प्रवर्तमानकार्याणि तथा निश्चितसमयसीमां विषये विस्तरेण सूचनां दत्तवन्तः। एषा परियोजना क्षेत्रस्य सांस्कृतिक आध्यात्मिक च विरासतस्य संरक्षणेन सह पर्यटकानां कृते उत्तम आधारभूत संरचनानां सुविधानां च विकासं दृष्ट्वा निर्मीयते।

एषा परियोजना पूर्णा भवति चेत् असमराज्ये धार्मिकश्रद्धायाः विरासतपर्यटनस्य च एकं महत्वपूर्णं केन्द्रं भवितुम् अपेक्ष्यते।

हिन्दुस्थान समाचार