उपमुख्यमंत्री -सह राजस्व एवं भूमि सुधार मंत्री विजय सिन्हा जनतामंडपेऽद्य तत्कालं करिष्यते निर्णयः
पटना, 22 दिसंबरमासः (हि.स.)। राजस्वभूमिसुधारविभागेन सम्बद्धाः महत्त्वपूर्णाः सेवाः सामान्यजनानां कृते निर्धारितसमयसीमायां उपलब्धाः स्युः—इति उद्देश्येन अद्य मुजफ्फरपुरनगरे भूमिसुधार जनकल्याणसंवादः आयोजितः अभवत्। कार्यक्रमस्य अध्यक्षतां उपमुख्यमंत
उपमुख्यमंत्री विजय कुमार सिन्हा की फाइल फोटो


पटना, 22 दिसंबरमासः (हि.स.)।

राजस्वभूमिसुधारविभागेन सम्बद्धाः महत्त्वपूर्णाः सेवाः सामान्यजनानां कृते निर्धारितसमयसीमायां उपलब्धाः स्युः—इति उद्देश्येन अद्य मुजफ्फरपुरनगरे भूमिसुधार जनकल्याणसंवादः आयोजितः अभवत्। कार्यक्रमस्य अध्यक्षतां उपमुख्यमंत्रीसह राजस्वभूमिसुधारमन्त्री विजयकुमारः सिन्हा करिष्यति।

एतत् आयोजनं डॉ भीमराव अम्बेडकर बिहार विश्वविद्यालयस्य परिसरस्थिते श्रीकृष्णसिंहप्रेक्षागृहे द्वयोः पाल्योः सम्पन्नः भविष्यति। प्रथमपाल्यां पूर्वाह्णे ११ वादनात् अपराह्णे २:३० वादनपर्यन्तं भूमिसुधार जनकल्याणसंवादः आयोजितः भविष्यति, यस्मिन् राजस्वसम्बद्धाः ऑनलाइनसेवाः, समस्याः तेषां समाधानानि च विषये सामान्यजनानां शिकायताः श्रूयन्ते। अत्र अञ्चलाधिकारीणः राजस्वकर्मिणश्च पीडितानां समक्षं उपवेश्य समस्यायाः विषये चर्चा करिष्यन्ति। अस्मिन् सत्रे राजस्वविभागसम्बद्धाः सर्वे पदाधिकारीणः राजस्वकर्मिणश्च सह सामान्यनागरिकाणां सक्रियभागितां भविष्यति। शिकायतकर्तॄणां पञ्जीकरणं प्रातः ९ वादनात् १०:३० वादनपर्यन्तं करिष्यते। आवेदनपत्रे नाम, स्पष्टं पता तथा मोबाइलसंख्या अवश्यं दातव्या—इति अपीलः कृतः अस्ति, येन कार्यवाहीसम्बद्धा सूचना सन्देशरूपेण प्राप्ता भविष्यति।

द्वितीयपाल्यां अपराह्णे ३:३० वादनात् ५ वादनपर्यन्तं राजस्वविभागस्य पदाधिकारीकर्मिभिः सह समीक्षोपवेशनम् आयोजितं भविष्यति। अस्यां गोष्ठ्यां जिलायाः अपरसमाहर्ता, सर्वे भूमिसुधार-उपसमाहर्तारः, जिलाभू-अर्जनपदाधिकारी, बन्दोबस्तपदाधिकारी, सर्वे अञ्चलाधिकारिणः, राजस्वाधिकारिणः तथा राजस्वकर्मिणश्च सम्मिलिष्यन्ति। बैठके दाखिल-खारिज, परिमार्जन-प्लस्, ई-मापी इत्यादीनां सर्वासां ऑनलाइनसेवानां स्थितेः आँकडाभिः सह समीक्षा करिष्यते। अस्मिन् एव अवसरॆ अभियान-बसॆरा २ इत्यस्य स्थितेः अपि विशेषरूपेण समीक्षा भविष्यति।

भूमिसुधार जनकल्याणसंवादस्य माध्यमेन माननीयस्य उपमुख्यमन्त्रिणः विजयकुमारस्य सिन्हस्य अभिप्रायः अस्ति यत् दाखिल-खारिज, परिमार्जन-प्लस्, ई-मापी इत्याद्याः सर्वाः ऑनलाइनसेवाः समयसीमायां उपलब्धाः स्युः, येन भू-अभिलेखाः अद्यतनाः भविष्यन्ति तथा भूमिविवादेषु अपि न्यूनता आगमिष्यति। एतेन प्रशासनिकव्यवस्था अधिकं संवेदनशीलां, पारदर्शिनीं तथा उत्तरदायिनीं च कर्तुं शक्यते।

---------------

हिन्दुस्थान समाचार