Enter your Email Address to subscribe to our newsletters

बैतूलजनपदे, २२ दिसम्बरमासः (हि.स.)। मध्यप्रदेशराज्यस्य जनजातिग्रामीणबहुलस्य बैतूलजनपदे सार्वजनिकनिजीसंधिपद्धत्या वैद्यकीयमहाविद्यालयस्य स्थापना आरभ्यते। मङ्गलवासरे २३ दिसम्बरदिवसे केन्द्रीयस्वास्थ्यकल्याणमन्त्री जे.पी. नड्डा महोदयस्य मुख्यातिथ्ये तथा मुख्यमन्त्री डॉ. मोहनयादवस्य अध्यक्षतायां बैतूलमुख्यालये स्थिते रक्षकदलप्राङ्गणे सार्वजनिकनिजीसंधिपद्धत्या स्वीकृतस्य वैद्यकीयमहाविद्यालयस्य शिलान्यासः भूमिपूजनं च विधास्यते। अस्मिन् अवसरे विधायका: तथा अन्ये सम्मानिताः लोकप्रतिनिधयः अपि उपस्थिताः भविष्यन्ति। अस्य अवसरस्य माध्यमेन बैतूलजनपदे विकासकार्याणां नवगतिं दत्त्वा विभिन्नविभागानाम् अन्तर्गतं विकासपरियोजनानां लोकार्पणं भूमिपूजनं च करिष्यते।
जनसम्पर्कपदाधिकारी रोमित: उईके सोमवासरे सूचनां दत्त्वा अवदत् यत् सार्वजनिकनिजीसंधिपद्धत्या स्वीकृतस्य वैद्यकीयमहाविद्यालयस्य शिलान्यासभूमिपूजन-अवसरे स्वास्थ्यशिविरस्य आयोजनमपि विधास्यते, यस्मिन् प्रायः पञ्चाशत्सहस्राणि हितग्राहकाणि आगन्तुं सम्भाव्यन्ते। बैतूलः एकः जनजातिबहुलः जनपदः अस्ति, यस्य जनसंख्या प्रायः अष्टादशलक्षाः वर्तते। अस्मिन् जनपदे दश विकासखण्डाः सन्ति, तेषु सप्त आदिवासीविकासखण्डाः सन्ति। वर्तमानकाले जनपदे एकं जनपदचिकित्सालयम्, एकं नागरिकचिकित्सालयम्, तथा दश सामुदायिकस्वास्थ्यकेन्द्राणि सन्ति, येषां माध्यमेन सामान्यजनानां कृते स्वास्थ्यसेवाः प्रदीयन्ते। एतादृशीषु परिस्थितिषु जनपदे वैद्यकीयमहाविद्यालयस्य स्थापना स्वास्थ्यशिक्षाजीविकोपार्जनक्षेत्रेषु ऐतिहासिकी उपलब्धिः भविष्यति।
वैद्यकीयमहाविद्यालयस्य स्थापनया जनपदे तृतीयकस्तरीयाः स्वास्थ्यसुविधाः उपलब्धाः भविष्यन्ति। अतः गम्भीर- जटिलरोगाणां चिकित्सार्थं रोगिणः महानगरान् प्रति प्रेषयितुं न आवश्यकं भविष्यति। स्थानीयस्तरे एव अल्पव्ययीः, सुलभाः तथा गुणवत्तापूर्णाः चिकित्सासेवाः उपलब्धाः भविष्यन्ति, येन रोगिणां तेषां च कुटुम्बिनां कालस्य आर्थिकभारस्य च न्यूनीकरणं भविष्यति। वैद्यकीयमहाविद्यालयस्य माध्यमेन जनपदे विषयविशेषज्ञवैद्याः, प्रशिक्षिताः परिचारिकाः, परीक्षणविशेषज्ञाः, तथा सहायकचिकित्साकर्मकाराः उपलब्धाः भविष्यन्ति। सीटी-स्कैन, एमआरआई, रेखीयत्वरकः इत्यादीनाम् अत्याधुनिकपरीक्षणचिकित्सा-
सुविधानाम् उपलब्ध्या जटिलशल्यक्रियाणां गम्भीररोगाणां च उपचारः स्थानीयस्तरे एव सम्भवः भविष्यति। जनपदचिकित्सालयस्य उन्नयनं कृत्वा तत् वैद्यकीयमहाविद्यालयेन सह सम्बद्धं भविष्यति, येन रोगिणां संख्या-वृद्धौ अपि उत्तमः उपचारः प्रदास्यते। तेन सह रोगीस्थानान्तरणकाले मृत्युघटनानां संख्यायामपि उल्लेखनीया न्यूनता भविष्यति।
वैद्यकीयमहाविद्यालयस्य स्थापनया जनपदाय आर्थिकाः सामाजिकाः च लाभाः अपि भविष्यन्ति। वैद्याः, परिचारिकाः, परीक्षणविशेषज्ञाः, सहायकचिकित्साकर्मकाराः तथा अन्ये सहायकाकर्मचारीणः कृते नूतनाः जीविकोपार्जन-अवसराः सृज्यन्ते। महाविद्यालयस्य परिसरे समीपे आवासव्यवस्थाः, अतिथिशालाः, भोजनालयाः तथा लघुव्यवसायाः प्रवर्धनं प्राप्स्यन्ति, येन स्थानीय-अर्थव्यवस्था सुदृढा भविष्यति। एषा संस्था चिकित्साशिक्षायाः अनुसन्धानस्य प्रमुखं केन्द्रं भविष्यति, येन जनपदस्य विद्यार्थिनः स्वप्रदेशे एव वैद्यकीयशिक्षां प्राप्तुं शक्नुवन्ति। स्वास्थ्यसेवानां उपलब्धता तथा गुणवत्ता च उल्लेखनीयरूपेण वर्धिष्यते। आयुष्मानभारतयोजनाया: अन्तर्गतं पात्रहितग्राहकाणां तथा निर्धनवर्गस्य कृते निःशुल्कचिकित्सासुविधा उपलब्धा भविष्यति। मातृशिशुस्वास्थ्य-कुपोषण-रक्ताल्पता -क्षयरोगः-मलेरिया- सिकलसेलरोगः-कर्कटरोगः- हृदयरोगाः- वृक्कयकृत्रोगाः इत्यादीनां निदानचिकित्सायां वैद्यकीयमहाविद्यालयस्य महत्त्वपूर्णा भूमिका भविष्यति। एतत् महाविद्यालयं शासनस्य प्रमुखस्वास्थ्ययोजनानां प्रभावीक्रियान्वयनस्य अपि केन्द्रं भविष्यति, येन जनपदस्य नागरिकाः प्रत्यक्षं लाभं प्राप्स्यन्ति।
---
हिन्दुस्थान समाचार / Dheeraj Maithani