Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 22 दिसंबरमासः (हि.स.)। प्रदेशस्य कस्तूरबा-गान्धी-बालिका-विद्यालयेषु (केजीबीवी) अध्ययनरताभ्यः बालिकाभ्यः विज्ञान–गणितयोः अध्ययनं अधिकं प्रयोगात्मकं, रुचिकरं प्रभावकरं च कर्तुं सर्वकारेण सुदृढः उपक्रमः प्रवर्तितः अस्ति। मूल-शिक्षा-मन्त्री सन्दीपसिंहस्य नेतृत्वे निर्देशनॆ च ‘लर्निंग् बाय् डूइंग्’ कार्यक्रमस्य अन्तर्गतं अधुना बालिकाः पुस्तकीय-ज्ञानस्य सह प्रयोगैः, क्रियाकलापैः, प्रत्यक्ष-अनुभवैः च विषयान् अवगन्तुं शक्नुवन्ति।
अत्रैव प्रदेशस्य सर्वेषु कस्तूरबा-गान्धी-बालिका-विद्यालयेषु विज्ञानगणित-अध्यापकानां विशेषप्रशिक्षणं राज्यग्रामीणविकाससंस्थाने (एस्.आई.आर्.डी.) प्रचलति। अस्य प्रशिक्षणस्य उद्देश्यं शिक्षकेभ्यः आधुनिक-शिक्षण-पद्धतीभिः सह कौशल-शिक्षायाः संयोजनं कृत्वा कक्षाध्यापनं अधिकं सजीवं, सहभागी, परिणामोन्मुखं च करणीयम् इति अस्ति।
उल्लेखनीयं यत् ‘लर्निंग् बाय् डूइंग्’ कार्यक्रमः केवलं प्रशिक्षण-कार्यक्रमः न, अपि तु विज्ञान–गणित-अध्यापनॆ गुणात्मक-परिवर्तनस्य साधनम् अपि अस्ति। अनेन बालिकासु तर्कशक्तेः, समस्या-समाधान-क्षमतायाः, वैज्ञानिक-दृष्टेः, आत्मविश्वासस्य च विकासः भविष्यति। एषा पहल केजीबीवी-विद्यालयान् केवलं आवासीय-विद्यालय-रूपेण न, अपि तु कौशलस्य बोधस्य च प्रयोगशाला-रूपेण स्थापयिष्यति। विशेषतः ग्रामीण, वञ्चित, सामाजिकरूपेण निर्धन-वर्गस्य बालिकाभ्यः आधुनिकां समान-अवसर-युक्तां शिक्षां प्राप्तुं साहाय्यं करिष्यति।
मूलशिक्षामन्त्री सन्दीपसिंहः सोमवासरे अवदत् यत् प्रदेश-सर्वकारस्य संकल्पः अस्ति— प्रत्येकाया बालिकायाः गुणवत्तापूर्णा कौशल-शिक्षा तथा आधुनिक-समान-अवसर-युक्ता शिक्षा उपलब्धा भवेत्। सर्वेषु केजीबीवी-विद्यालयेषु ‘लर्निंग् बाय् डूइंग्’ कार्यक्रमः अस्य एव दृष्टेः परिणामः अस्ति, यत्र विज्ञान–गणितयोः अध्ययनं अनुभवेन प्रयोगेण च कारयिष्यते। एषः उपक्रमः वञ्चितग्रामीणपृष्ठभूमियुक्ताः बालिकाः अपि भविष्यस्य स्पर्धासु सक्षमाः आत्मनिर्भराः च करिष्यति।
उपकरण–प्रयोग-सामग्री–उपभोज्य-वस्तूनां क्रयार्थं धनसीमा-निर्धारणम्
अस्य कार्यक्रमस्य प्रभावी-क्रियान्वयनार्थं प्रदेश-सर्वकारेण प्रत्येकस्मै कस्तूरबा-गान्धी-बालिका-विद्यालयाय ₹४३,२५० इति धनराशेः स्थानीय-स्तरे निर्गमन-सीमा निर्धारिता। अस्याः धनराशेः उपयोगेन ‘लर्निंग् बाय् डूइंग्’ कार्यक्रमस्य उपकरणानि, प्रयोग-सामग्री, उपभोज्य-वस्तूनि (कञ्ज्यूमेबल्स्/कच्चा-द्रव्यं) क्रेतव्यानि सन्ति, येन छात्राः प्रयोगैः विज्ञान–गणित-सिद्धान्तान् अवगन्तुं शक्नुवन्ति।
विद्यालय-प्रबन्धन-समित्या माध्यमेन स्थानीय-स्तरे क्रयः
सर्वकारीय-निर्देशानुसारं एषः क्रयः विद्यालय-प्रबन्धन-समित्या माध्यमेन स्थानीय-स्तरे एव करिष्यते, येन आवश्यकता-अनुसारं सामग्री उपलब्धा भवेत्। कार्यक्रमस्य निरीक्षणं सततमूल्याङ्कनं च जनपद-स्तरे नामित-जिला-समन्वयकाय (डी.सी.) समर्पितम् अस्ति, येन धनराशेः उपयोगः नियमानुसारं शैक्षणिक-उद्देश्यानां पूर्त्यर्थमेव भवति इति सुनिश्चितं भवेत्।
अधिकारिणां कृते निर्देशाः
सर्वकारेण सर्वेभ्यः सम्बन्धित-अधिकारीभ्यः निर्देशाः दत्ताः यत् कार्यक्रमस्य क्रियान्वयनं समयबद्धं, पारदर्शकं, गुणवत्तापूर्णं च सुनिश्चितं क्रियेत, येन प्रदेशस्य बालिकाः विज्ञान–गणितयोः केवलं दक्षाः न, अपि तु आत्मनिर्भर-भविष्यस्य प्रति सुदृढं पदं स्थापयितुं समर्थाः भवन्तु। महानिदेशिका मोनिका-राणी अवदत् यत् ‘लर्निंग् बाय् डूइंग्’ कार्यक्रमस्य माध्यमेन सर्वेषु केजीबीवी-विद्यालयेषु विज्ञानगणितशिक्षा व्यवहारिका अनुभव-आधारिता च क्रियते। अध्यापक-प्रशिक्षणात् आरभ्य विद्यालय-स्तरे आवश्यक-उपकरणानां कञ्ज्यूमेबल्स्-उपलब्धतां यावत् सर्वेषु स्तरॆषु एतत् सुनिश्चितं कृतं यत् बालिकाः केवलं पाठ्यक्रमं न पठेयुः, अपि तु प्रयोगैः एव शिक्षां प्राप्नुयुः। एषः उपक्रमः छात्रासु वैज्ञानिक-चिन्तनं, तर्क-क्षमतां, आत्मविश्वासं च सुदृढं करिष्यति।
-------------
हिन्दुस्थान समाचार / Dheeraj Maithani