Enter your Email Address to subscribe to our newsletters

भाेपालम्, 22 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य सोमवासरे महतः गणितज्ञस्य श्रीनिवासरामानुजनस्य जयन्त्यां (२२ दिसम्बर) तं सादरं नत्वा राष्ट्रियगणितदिवसस्य शुभाशयाः प्रेषितवान्। सः रामानुजनं “संख्यानां जादूगरः” इति निर्दिश्य गणितक्षेत्रे तस्य अतुलनीयम् योगदानं स्मारितवान्, यत् विश्वस्य जनान् सर्वत्र प्रेरयति।
मुख्यमन्त्री डॉ. यादवः सामाजिक-माध्यमे ‘एक्स’ इत्यस्मिन् स्वीयसन्देशे अवदत्- “महान् गणितज्ञः श्रीनिवासः रामानुजनः तस्य जयन्त्यां सादरं नमनं करोमि। राष्ट्रीय-गणित-दिवसस्य हार्दिकाः शुभेच्छाः शुभाशयाश्च। वैदिककालात् आरभ्य देशस्य महान् गणितज्ञाः विद्वांसश्च गणितविद्यां परिष्कृत्य विश्वं तया महत्या विद्यया परिचितवन्तः। अस्मिन् अवसरें सर्वेभ्यः विद्वद्भ्यः नमनं करोमि।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता