Enter your Email Address to subscribe to our newsletters

- 27 दिसंबरं यावत् चलिष्ययि 69तमी राष्ट्रियशालेयचतुर्दशवर्षीय बालकहॉकीप्रतियोगिता
टीकमगढ़म्, 22 दिसंबरमासः (हि.स.)।मध्यप्रदेशस्य टीकमगढजिलायां ढोंगा-ग्राउण्डे तथा गंजी-खाना-ग्राउण्डे च २२ दिसम्बरतः २७ दिसम्बरपर्यन्तं ६९वी राष्ट्रिय-शालेय-१४-वर्षीय-बालक-हॉकी-प्रतियोगिता आयोजिता भविष्यति। केन्द्रीयसामाजिकन्याय-अधिकारिता-मन्त्री डॉ वीरेंद्रकुमारस्य मुख्यातिथ्ये अद्य सोमवारवासरे ढोंगा-ग्राउण्डे प्रतियोगितायाः शुभारम्भः भविष्यति।
जिलाशिक्षाधिकारी एचएस चौहानः सूचनां दत्त्वा अवदत् यत् ६९वी राष्ट्रिय-शालेय-१४-वर्षीय-बालक-हॉकी-प्रतियोगितायां ३२ राज्येभ्यः आगताः दलाः सहभागिता करिष्यन्ति। राज्येभ्यः आगतानां दलानां कृते नगरस्य सर्वेषु उत्तमेषु होटेल्सु निवासव्यवस्था कृता अस्ति। भोजनव्यवस्था अपि अतीव उत्तमा कृता अस्ति, यस्याः प्रतिदिनं खाद्याधिकारिणा परीक्षणं क्रियते। ग्राउण्डनिर्माणस्य अन्यासां च व्यवस्थाणां कृते पुरातनानां अनुभवी-खिलाडीनां, कोच्-जनानां तथा क्रीडाशिक्षकाणां च साहाय्यं गृहीतम् अस्ति।
हिन्दुस्थान समाचार