Enter your Email Address to subscribe to our newsletters

समस्तीपुरम्, 22 दिसंबरमासः (हि.स.)। जनपदः इदानीं विकासवेगेन महत्पादम् स्थापयितुम् प्रवृत्तः अस्ति। अस्य जनपदस्य मार्गेण द्वौ नूतनौ उन्नतद्रुतराजमार्गौ गमिष्यतः। एतयोः उभयोः द्रुतराजमार्गयोः निर्माणार्थं सर्वाः पूर्वतैयार्यः सम्पूर्णाः कृताः सन्ति।
एकस्मिन् पक्षे रक्सौल–हल्दिया द्रुतराजमार्ग–मार्गस्य ५७.७ किलोमीटर–दीर्घः अंशः, अपरस्मिन् च पटना–पूर्णियाद्रुतराजमार्गस्य ६२ किलोमीटर–परिमितः खण्डः समस्तीपुर–जनपदभूमेः मार्गेण गमिष्यति। एताभ्याम् उभाभ्यां परियोजनाभ्यां जनपदस्य समग्रतः ११७ ग्रामाः प्रत्यक्षतया प्रभाविताः भविष्यन्ति, येन ग्रामीणप्रदेशानां दशा च दिशा च उभयमपि परिवर्तयितुम् अपेक्षा व्यक्ता क्रियते।
जनपदभू–अर्जन विभागेन उभयोः द्रुतराजमार्गयोः सर्वेक्षणकार्यं तथा एलाइनमेंट–निर्धारणकार्यं सम्पूर्णं कृतम् अस्ति। विभागीयसूत्रैः अवगतं यत् शीघ्रमेव अस्य गजट–प्रकाशनं भविष्यति, तदनन्तरं भूम्यधिग्रहण–प्रक्रिया आरभ्यते।
रक्सौलतः हल्दिया बन्दरगाहं योजयन् अयं द्रुतराजमार्गः समस्तीपुर–जनपदस्य पञ्च प्रखण्डेषु मार्गेण गमिष्यति। एषा शीघ्रमार्गिका दरभङ्गादिशातः कल्याणपुर–प्रखण्डस्य लदौरा–ग्रामात् जनपदस्सीमायां प्रवेशं करिष्यति। ततः अनन्तरं कल्याणपुर–प्रखण्डस्य रामपुरा, फुलहारा, बिरसिंहपुर, अजना अकबरपुर गजपति, बलभद्रपुर खजुरी, गोविन्दपुर खजुरी, बांकीपुर, क्षटोल मथुरापुर, रामपुर कुसैया, हजपुरवा तथा मोहिउद्दीनपुर इत्यादीन् ग्रामान् स्प्रक्ष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani