वाराणसी नगर निगमः - नगरायुक्तस्य जोनल अधिकारिभ्यो निर्देशः—प्रतिदिनं न्यूनातिन्यूनं 10 भवनानां करणीयन्निर्धारणम्
सम्पत्तिकरग्रहणे शैथिल्यन्न , लक्ष्य पूर्णं करोतु अथवा उत्तरतु- नगरायुक्तः वाराणसी, 22 दिसंबरमासः (हि.स. )। उत्तरप्रदेशस्य वाराणसी-नगरनिगमस्य आयुक्तः हिमांशुनागपालः अद्य सम्पत्तिकर-वसूल्याः दयनीयस्थितिं प्रति तीव्रां नाराजगीं प्रकटितवान्। सः अधिक
भवनों के सत्यापन के लिए निकले नगर आयुक्त


सम्पत्तिकरग्रहणे शैथिल्यन्न , लक्ष्य पूर्णं करोतु अथवा उत्तरतु- नगरायुक्तः

वाराणसी, 22 दिसंबरमासः (हि.स. )। उत्तरप्रदेशस्य वाराणसी-नगरनिगमस्य आयुक्तः हिमांशुनागपालः अद्य सम्पत्तिकर-वसूल्याः दयनीयस्थितिं प्रति तीव्रां नाराजगीं प्रकटितवान्। सः अधिकारिणः प्रति स्पष्टं द्विटूक-वचनेन संचेतनां दत्तवान् यत् इदानीं शैथिल्यं न स्वीकार्यं परिणाम एव अपेक्षितः।

नगरायुक्तेन स्पष्टाः निर्देशाः दत्ताः यत् सर्वे क्षेत्रीय-अधिकारी प्रतिदिनं न्यूनतमं दश भवनानां असेस्मेण्टं स्वयमेव करिष्यन्ति तथा तस्य लिखितप्रतिवेदनं अनिवार्यतया समर्पयिष्यन्ति। नगरायुक्तेन आदेशः दत्तः यत् नवविस्तारितेषु नगरक्षेत्रेषु ये व्यावसायिकभवनाः अद्यावधि असेस्मेण्टात् बहिः स्थिताः सन्ति तान् त्वरितं चिन्हीकृत्य सम्पत्तिकरग्रहणं क्रियेत।

तथैव सर्वेभ्यः राजस्वनिरीक्षकेभ्यः आदेशः प्रदत्तः यत् ते स्वस्वक्षेत्रेषु राजस्ववसूल्यर्थं नियमितरूपेण शिविराणि स्थापयित्वा स्थल एव करग्रहणं सुनिश्चितां कुर्वन्तु। नगरनिगमस्य जनसम्पर्ककार्यालयेन सोमवासरे सूचितं यत् नगरायुक्तः हिमांशुनागपालः स्वयमेव राजाबाजार-नदेसर-क्षेत्रे औचकनिरीक्षणं कृत्वा दश महतां चिकित्सालयानां सम्पत्तिकर-असेस्मेण्टस्य स्थल एव सत्यापनं कृतवान्।

रविवासरस्य सायंकाले निरीक्षणकाले नगरायुक्तेन आवश्यकप्रपत्राणां परीक्षणं कृत्वा असेस्मेण्ट-प्रक्रियां शीघ्रीकर्तुं स्पष्टाः निर्देशाः दत्ताः। नगरायुक्तेन अधिकारिणः चेतिताः यत् सम्पत्तिकरग्रहणे कस्यापि स्तरस्य शैथिल्यं दृश्यते चेत् सम्बन्धित-अधिकारिणां व्यक्तिगत-उत्तरदायित्वं निश्चितं कृत्वा कठोरा प्रशासनिक-कार्यान्वितिः करिष्यते।

हिन्दुस्थान समाचार