उत्तरप्रदेशराज्यस्य सर्वेषु चिकित्सालयेषु औषधपरीक्षणसेवाः च निःशुल्कम् उपलब्धाः सन्ति—ब्रजेशः पाठकः।
लखनऊनगरम्, २२ दिसम्बरमासः (हि.स.)। उत्तरप्रदेशविधानसभायाः शीतकालीनसत्रस्य द्वितीयदिने सोमवासरे सदने कोडीनकासशरबतविषयः उपस्थितः अभवत्। समाजवादीपक्षस्य सदस्याः वेलप्रदेशं प्रविश्य किञ्चित्कालं कोलाहलं कृतवन्तः। विधानसभाध्यक्षस्य आश्वासनेन समाजवादीपक
उत्तरप्रदेशराज्यस्य सर्वेषु चिकित्सालयेषु औषधपरीक्षणसेवाः च निःशुल्कम् उपलब्धाः सन्ति—ब्रजेशः पाठकः।


लखनऊनगरम्, २२ दिसम्बरमासः (हि.स.)।

उत्तरप्रदेशविधानसभायाः शीतकालीनसत्रस्य द्वितीयदिने सोमवासरे सदने कोडीनकासशरबतविषयः उपस्थितः अभवत्। समाजवादीपक्षस्य सदस्याः वेलप्रदेशं प्रविश्य किञ्चित्कालं कोलाहलं कृतवन्तः। विधानसभाध्यक्षस्य आश्वासनेन समाजवादीपक्षस्य सदस्याः स्वस्व-आसनेषु प्रत्यागताः। ततः अनन्तरं सदनस्य कार्यवाही अग्रे प्रवृत्ता।

सदने राज्यस्य उपमुख्यमन्त्री ब्रजेशः पाठकः अवदत् यत् उत्तरप्रदेशराज्यस्य सर्वेषु चिकित्सालयेषु औषधानां किमपि अभावः नास्ति, तथा च परीक्षणानां निःशुल्क-व्यवस्था अपि उपलब्धा अस्ति।

अद्य विधानसभायां पूर्वाह्ने एकादशवादने सदनस्य कार्यवाही आरभ्यमाणा एव विपक्षनेता माताप्रसादः पाण्डेयः कोडीनकासविषयम् उपस्थितवान्। तस्मिन् विषये समाजवादीपक्षस्य सदस्याः वेलप्रदेशं गत्वा कोलाहलं कर्तुम् आरब्धवन्तः। विधानसभाध्यक्षेन आश्वासनं दत्ते सति समाजवादीपक्षस्य सदस्याः पुनः स्वस्थानानि प्रत्यागतानि। ततः अनन्तरं सदनस्य कार्यवाही अग्रे प्रवृत्ता।

प्रश्नकालस्य समये विपक्षस्य प्रश्नानाम् उत्तरं दत्त्वा उपमुख्यमन्त्री ब्रजेशः पाठकः अवदत् यत् प्रदेशस्य सर्वेषु चिकित्सालयेषु सर्वाः स्वास्थ्यसुविधाः उपलब्धाः सन्ति। औषधानां किमपि अभावः नास्ति। परीक्षणानां निःशुल्कव्यवस्था अपि अस्ति। चिकित्सालयेभ्यः आरभ्य प्राथमिकस्वास्थ्यकेन्द्राणि पर्यन्तं सर्वत्र औषधानि उपलब्धानि सन्ति। सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी देशस्य जनतायै आयुष्मानभारतयोजनां प्रदत्तवान्। उत्तरप्रदेशराज्येन सार्धपञ्चकोटिजनानां आयुष्मानपरिचयपत्राणि निर्मितानि सन्ति। यदि एतेषु अपि केचन लाभं न प्राप्नुवन्ति, तेषां चिकित्सार्थं मुख्यमन्त्री योगी आदित्यनाथः त्रयोदशशताधिकशतकोटिरूप्यकाणि चिकित्सायै प्रदत्तवान्। ब्रजेशः पाठकः अवदत् यत् एते जनाः दरिद्राणां चिकित्सां प्रति चिन्तां न कुर्वन्ति, अपितु सत्तायाः चिन्तामेव कुर्वन्ति। ते माध्यमेषु प्रकाशितुं चिन्तिताः सन्ति, अत एव वेलप्रदेशं प्रविशन्ति।

अन्यस्य प्रश्नस्य उत्तरं दत्त्वा उपमुख्यमन्त्री पाठकः अवदत् यत् पूर्वमुख्यमन्त्रिणः कल्याणसिंहस्य नाम्ना कर्कटचिकित्सासंस्थानम् स्थापितम् अस्ति। गोरखपुरे, प्रयागराजे, कानपुरे, लखनऊनगरे च कर्कटरोगेण पीडितानां रोगिणां परीक्षणचिकित्सासुविधाः उपलब्धाः सन्ति। प्रदेशे सप्तषष्टिः दिवाचिकित्साकेन्द्राणि निर्मातुं योजना अस्ति। केवलं दरिद्राणां चिकित्सार्थं मुख्यमन्त्रीसुविधाकोषात् धनराशिः प्रदीयते।

अस्मात् पूर्वं समाजवादीपक्षस्य सदस्यः समरपालः सिंहः स्वास्थ्यविषयम् उपस्थितवान्। सः अवदत् यत् वैद्याः निजचिकित्साप्रयोगं कुर्वन्ति। सीटीस्कैनयन्त्रं स्थापितम् अस्ति, किन्तु तत् चालयितॄणाम् अभावः अस्ति। स्वास्थ्यविषयकं प्रश्नं समाजवादीपक्षस्य नेता अखिलेशः अपि उपस्थितवान्। समाजवादीपक्षस्य सदस्यौ ब्रजेशकठेरियाकमालअख्तरौ वैद्यनियुक्तिविषयकान् प्रश्नान् अपि उपस्थितवन्तौ।

---

हिन्दुस्थान समाचार / Dheeraj Maithani